तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आह—तात ! कथयात्म-वृत्तान्तम् । चिरादद्य दृष्टोऽसि ।
स आह—वत्स ! नायं कथनस्य कालः । यतः कदाचित्तस्य रिपो कश्चित्प्रणिधिर्ममेहागमनं निवेदयिष्यति । यज्ज्ञानादन्धोऽन्यत्रापसरणं करिष्यति । तत्त्वर्यताम् । उक्तं च—
शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥
Metre: अनुष्टुप्
यस्य यस्य हि कार्यस्य फलितस्य विशेषतः । क्षिप्रमक्रियमाणस्य कालः पिबति तत्-फलम् ॥
Metre: अनुष्टुप्
तद्-गुहायामायातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्-वचनमाकर्ण्य स-परिजन एकैकां ज्वलन्तीं वन-काष्ठिकां चञ्च्व्-अग्रेण गृहीत्वा तद्-गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्ष-वाक्यानि स्मरन्तो द्वारस्यावृतत्वादनिःसरन्तो गुहा-मध्ये कुम्भीपाक-न्यायमापन्ना मृताश्च । एवं शत्रून्निःशेषतां नीत्वा भूयोऽपि मेघवर्णस्तदेव न्यग्रोध-पादप-दुर्गं जगाम । ततः सिंहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनमपृच्छत्-तात ! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यन्तं कालो नीतः ? तदत्र कौतुकमस्माकं वर्तते, तत्कथ्यताम् । यतः—
वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम् । न चारिजन-संसर्गो मुहूर्तमपि सेवितः ॥
Metre: अनुष्टुप्
तदाकर्ण्य स्थिरजीव्याह-भद्र !आगामि-फल-वाञ्छया कष्टमपि सेवको न जानाति । उक्तं च यतः—
कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते । सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥
Metre: अनुष्टुप्
उपनत-भये यो यो मार्गो हितार्थ-करो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान्कृपणोऽपि वा । करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ वलय-रचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ॥
Metre: हरिणी