पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 511 to 520 of 601 verses
तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आह—तात ! कथयात्म-वृत्तान्तम् । चिरादद्य दृष्टोऽसि ।

स आह—वत्स ! नायं कथनस्य कालः । यतः कदाचित्तस्य रिपो कश्चित्प्रणिधिर्ममेहागमनं निवेदयिष्यति । यज्ज्ञानादन्धोऽन्यत्रापसरणं करिष्यति । तत्त्वर्यताम् । उक्तं च—

Verse 222
शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥
Metre: अनुष्टुप्

तथा च—

Verse 223
यस्य यस्य हि कार्यस्य फलितस्य विशेषतः । क्षिप्रमक्रियमाणस्य कालः पिबति तत्-फलम् ॥
Metre: अनुष्टुप्

तद्-गुहायामायातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्-वचनमाकर्ण्य स-परिजन एकैकां ज्वलन्तीं वन-काष्ठिकां चञ्च्व्-अग्रेण गृहीत्वा तद्-गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्ष-वाक्यानि स्मरन्तो द्वारस्यावृतत्वादनिःसरन्तो गुहा-मध्ये कुम्भीपाक-न्यायमापन्ना मृताश्च । एवं शत्रून्निःशेषतां नीत्वा भूयोऽपि मेघवर्णस्तदेव न्यग्रोध-पादप-दुर्गं जगाम । ततः सिंहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनमपृच्छत्-तात ! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यन्तं कालो नीतः ? तदत्र कौतुकमस्माकं वर्तते, तत्कथ्यताम् । यतः—

Verse 224
वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम् । न चारिजन-संसर्गो मुहूर्तमपि सेवितः ॥
Metre: अनुष्टुप्

तदाकर्ण्य स्थिरजीव्याह-भद्र !आगामि-फल-वाञ्छया कष्टमपि सेवको न जानाति । उक्तं च यतः—

Verse 225
कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते । सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥
Metre: अनुष्टुप्

Verse 226
उपनत-भये यो यो मार्गो हितार्थ-करो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान्कृपणोऽपि वा । करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ वलय-रचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ॥
Metre: हरिणी

Showing 511 to 520 of 601 verses