सन्तापयन्ति कमपथ्य-भुजं न रोगा दुर्मन्त्रिणं कमुपयान्ति न नीति-दोषाः । कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया परिपीडयन्ति ॥
Metre: वसन्ततिलका
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री नष्ट-क्रियस्य कुल अर्थ-परस्य धर्मः । विद्या-फलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥
Metre: वसन्ततिलका
तद्राजन् !असि-धारा-व्रतं मयाचरितमरितमरि-संसर्गादिति यद्भवतोक्तं, तन्मया साक्षादेवानुभूतम् । उक्तं च—
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वार्थमभ्युद्धरेत्प्राज्ञः कार्य-ध्वंसो हि मूर्खता ॥
Metre: अनुष्टुप्
स्कन्धेनापि वहेच्छत्रुं कालमासाद्य बुद्धिमान् । महता कृष्ण-सर्पेण मण्डूका बहवो हताः ॥
Metre: अनुष्टुप्
अस्ति वरुणाद्रि-समीप एकस्मिन्प्रदेशे परिणत-वया मन्द-विषो नाम कृष्ण-सर्पः । स एवं चित्ते सञ्चिन्तितवान्-कथं नाम मया सुखोपाय-वृत्त्या वर्तितव्यमिति । ततो बहु-मण्डूकं ह्रदमुपगम्य धृति-परीतमिवात्मानं दर्शितवान् ।