मण्डूका विविधा ह्येते छल-पूर्वोपसाधिताः । कियन्तं कालमक्षीणा भवेयुः खादिता मम ॥
Metre: अनुष्टुप्
जल-पादोऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किमपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस्तमुद्देशं समायातः । तं च मण्डूकैर्वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च-वयस्य ! यदस्माकमशनं तैः कथं वाह्यसे । विरुद्धमेतत् ।
सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः । किञ्चित्कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥
Metre: अनुष्टुप्
मन्दविषः कथयति- कथा १६ घृतान्ध-ब्राह्मण-कथा
अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चल्यन्यासक्त-मना अजस्रं विटायस-खण्ड-घृतान्घृत-पूरान्कृत्वा भर्तुश्चौरिकया प्रयच्छति । अथ कदाचिद्भर्ता दृष्ट्वाब्रवीत्-भद्रे ! किमेतत्परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत्कथय सत्यम् ।
सा चोत्पन्न-प्रतिभा कृतक-वचनैर्भर्तारमब्रवीत्-अस्त्यत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहमुपोषिता सती बलिं भक्ष्य-विशेषांश्चापूर्वान्नयामि ।
अथ तत्पश्यता गृहीत्वा तत्सकलं देव्यायतनाभिमुखी प्रतस्थे । यत्कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत्मम ब्राह्मणी भगवत्याः कृते नद्यामवतीर्य यावत्स्नानं करोति तावत्तद्भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे ।
अथ सा ब्राह्मणी स्नात्वा देव्य्-आयतनमागत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ?