पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 551 to 560 of 601 verses
Verse 240
मण्डूका विविधा ह्येते छल-पूर्वोपसाधिताः । कियन्तं कालमक्षीणा भवेयुः खादिता मम ॥
Metre: अनुष्टुप्

जल-पादोऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किमपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस्तमुद्देशं समायातः । तं च मण्डूकैर्वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च-वयस्य ! यदस्माकमशनं तैः कथं वाह्यसे । विरुद्धमेतत् ।

मन्दविषोऽब्रवीत्—

Verse 241
सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः । किञ्चित्कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥
Metre: अनुष्टुप्

सोऽब्रवीत्-कथमेतत् ?

मन्दविषः कथयति- कथा १६ घृतान्ध-ब्राह्मण-कथा

अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चल्यन्यासक्त-मना अजस्रं विटायस-खण्ड-घृतान्घृत-पूरान्कृत्वा भर्तुश्चौरिकया प्रयच्छति । अथ कदाचिद्भर्ता दृष्ट्वाब्रवीत्-भद्रे ! किमेतत्परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत्कथय सत्यम् ।

सा चोत्पन्न-प्रतिभा कृतक-वचनैर्भर्तारमब्रवीत्-अस्त्यत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहमुपोषिता सती बलिं भक्ष्य-विशेषांश्चापूर्वान्नयामि ।

अथ तत्पश्यता गृहीत्वा तत्सकलं देव्यायतनाभिमुखी प्रतस्थे । यत्कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत्मम ब्राह्मणी भगवत्याः कृते नद्यामवतीर्य यावत्स्नानं करोति तावत्तद्भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे ।

अथ सा ब्राह्मणी स्नात्वा देव्य्-आयतनमागत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ?

Showing 551 to 560 of 601 verses