पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 561 to 570 of 601 verses
तच्छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद-यदि त्वमजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रमन्धो भविष्यति ।

सा तु बन्धकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तदेव नित्यं प्रददौ । अथान्येद्युर्ब्राह्मणेनाभिहितम्-भद्रे, नाहं सुतरां पश्यामि ।

तच्छ्रुत्वा चिन्तितमनया-देव्याः प्रसादोऽयं प्राप्त इति । अथ तस्या हृदय-वल्लभो विटस्तत्-सकाशम्-अन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनमभ्येति । अथान्येद्युस्तं प्रविशन्तमभ्याश-गतं दृष्ट्वा केशैर्गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस्तावदताडयत्यावदसौ पञ्चत्वमाप । तामपि पुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज ।

अतोऽहं ब्रवीमि-स्कन्धेनापि वहेच्छत्रुम् (२३८)इत्यादि ।

अथ राजन् ! यथा मन्दविषेण बुद्धि-बलेन मण्डूका निहतास्तथा मयापि सर्वे वैरिणः । साधु चेदमुच्यते—

Verse 242
वने प्रज्वलितो वह्निर्दहन्मूलानि रक्षति । समूलोन्मूलनं कुर्याद्वायुर्यो मृदु-शीतलः ॥
Metre: अनुष्टुप्

मेघवर्ण आह—तात ! सत्यमेवैतत् । ये महात्मानो भवन्ति ते महा-सत्त्वा आपद्-गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः—

Verse 243
महत्त्वमेतन्महतां नयालङ्कार-धारिणाम् । न मुञ्चन्ति यदारब्धं कृच्छ्रेऽपि व्यसनोदये ॥
Metre: अनुष्टुप्

तथा च—

Verse 244
प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः । विघ्नैः सहस्र-गुणितैरपि हन्यमानाः प्रारब्धमुत्तम-गुणा न परित्यजन्ति ॥
Metre: वसन्ततिलका

Showing 561 to 570 of 601 verses