तच्छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद-यदि त्वमजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रमन्धो भविष्यति ।
सा तु बन्धकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तदेव नित्यं प्रददौ । अथान्येद्युर्ब्राह्मणेनाभिहितम्-भद्रे, नाहं सुतरां पश्यामि ।
तच्छ्रुत्वा चिन्तितमनया-देव्याः प्रसादोऽयं प्राप्त इति । अथ तस्या हृदय-वल्लभो विटस्तत्-सकाशम्-अन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनमभ्येति । अथान्येद्युस्तं प्रविशन्तमभ्याश-गतं दृष्ट्वा केशैर्गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस्तावदताडयत्यावदसौ पञ्चत्वमाप । तामपि पुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज ।
अतोऽहं ब्रवीमि-स्कन्धेनापि वहेच्छत्रुम् (२३८)इत्यादि ।
अथ राजन् ! यथा मन्दविषेण बुद्धि-बलेन मण्डूका निहतास्तथा मयापि सर्वे वैरिणः । साधु चेदमुच्यते—
वने प्रज्वलितो वह्निर्दहन्मूलानि रक्षति । समूलोन्मूलनं कुर्याद्वायुर्यो मृदु-शीतलः ॥
Metre: अनुष्टुप्
मेघवर्ण आह—तात ! सत्यमेवैतत् । ये महात्मानो भवन्ति ते महा-सत्त्वा आपद्-गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः—
महत्त्वमेतन्महतां नयालङ्कार-धारिणाम् । न मुञ्चन्ति यदारब्धं कृच्छ्रेऽपि व्यसनोदये ॥
Metre: अनुष्टुप्
प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः । विघ्नैः सहस्र-गुणितैरपि हन्यमानाः प्रारब्धमुत्तम-गुणा न परित्यजन्ति ॥
Metre: वसन्ततिलका