पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 491 to 500 of 601 verses
अथ राजापि तं पक्षिणं दृष्ट्वा विकसित-नयन-वदन-कमलः परां तुष्टिमुपगतः । प्राह चैवं-हंहो रक्षा-पुरुषाः !एनं पक्षिणं यत्नेन रक्षत । अशन-पानादिकं चास्य यथेच्छं प्रयच्छत ।

अथ मन्त्रिणाभिहितम्-किमनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनाण्डजेन ? किं कदाचित्पक्षी-पुरीषे सुवर्णं सम्भवति ? तन्मुच्यतां पञ्जर-बन्धनादयं पक्षी । इति मन्त्रि-वचनाद्राज्ञा मोचितोऽसौ पक्ष्युन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय-पूर्वं तावदहं मूर्खः इति श्लोकं पठित्वा यथा-सुखमाकाश-मार्गेण प्रायात् ।

अतोऽहं ब्रवीमि-पूर्वं तावदहं मूर्खः इति ।

अथ ते पुनरपि प्रतिकूल-दैवतया हितमपि रक्ताक्ष-वचनमनादृत्य भूयस्तं प्रभूत-मांसादि-विविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्व-वर्गमाहूय रहः प्रोवाच-अहो !एतावदेवास्मद्-भूपतेः कुशलं दुर्गं च । तदुपदिष्टं मया यत्कुल-क्रमागतः सचिवोऽभिधत्ते । तद्वयमन्यत्पर्वत-दुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः—

Verse 217
अनागतं यः कुरुते स शोभते स शोचते यो न करोत्यनागतम् । वने वसन्नेव जरामुपागतो बिलस्य वाचा न कदापि हि श्रुता ॥
Metre: वंशस्थम्

ते प्रोचुः-कथमेतत् ?

रक्ताक्षः कथयति- कथा १४ खरनखर-सिंह-कथा

कस्मिंश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिदितश्चेतश्च परिभ्रमन्क्षुत्क्षाम-कण्ठो न किञ्चिदपि सत्त्वमाससाद । ततश्चास्तमनसमये महतीं गिरि-गुहामासाद्य प्रविष्टश्चिन्तयामास-नूनमेतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन्निभृतो भूत्वा तिष्ठामि ।

एतस्मिन्नन्तरे तत्-स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत्पश्यति तावत्सिंह-पद-पद्धतिर्गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश्चाचिन्तयत्-अहो विनष्टोऽस्मि, नूनमस्यान्तर्गतेन सिंहेन भाव्यम् । तत्किं करोमि ? कथं ज्ञास्यामि ?एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः-अहो बिल !अहो बिल !इत्युक्त्वा तूष्णींभूय भूयोऽपि तथैव प्रत्यभाषत-भोः ! किं न स्मरसि यन्मया त्वया सह समयः कृतोऽस्ति ? यन्मया बाह्यात्समागतेन त्वं वक्तव्यः, त्वया चाहमाकरणीयः इति । तद्यदि मां नाह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि ।

अथ तच्छ्रुत्वा सिंहश्चिन्तितवान्-नूनमेषा गुहास्य समागतस्य सदा समाह्वानं करोति । परमद्य मद्-भयान्न किंचिद्ब्रूते । अथवा साध्विदमुच्यते—

Showing 491 to 500 of 601 verses