अथ राजापि तं पक्षिणं दृष्ट्वा विकसित-नयन-वदन-कमलः परां तुष्टिमुपगतः । प्राह चैवं-हंहो रक्षा-पुरुषाः !एनं पक्षिणं यत्नेन रक्षत । अशन-पानादिकं चास्य यथेच्छं प्रयच्छत ।
अथ मन्त्रिणाभिहितम्-किमनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनाण्डजेन ? किं कदाचित्पक्षी-पुरीषे सुवर्णं सम्भवति ? तन्मुच्यतां पञ्जर-बन्धनादयं पक्षी । इति मन्त्रि-वचनाद्राज्ञा मोचितोऽसौ पक्ष्युन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय-पूर्वं तावदहं मूर्खः इति श्लोकं पठित्वा यथा-सुखमाकाश-मार्गेण प्रायात् ।
अतोऽहं ब्रवीमि-पूर्वं तावदहं मूर्खः इति ।
अथ ते पुनरपि प्रतिकूल-दैवतया हितमपि रक्ताक्ष-वचनमनादृत्य भूयस्तं प्रभूत-मांसादि-विविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्व-वर्गमाहूय रहः प्रोवाच-अहो !एतावदेवास्मद्-भूपतेः कुशलं दुर्गं च । तदुपदिष्टं मया यत्कुल-क्रमागतः सचिवोऽभिधत्ते । तद्वयमन्यत्पर्वत-दुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः—
अनागतं यः कुरुते स शोभते स शोचते यो न करोत्यनागतम् । वने वसन्नेव जरामुपागतो बिलस्य वाचा न कदापि हि श्रुता ॥
Metre: वंशस्थम्
रक्ताक्षः कथयति- कथा १४ खरनखर-सिंह-कथा
कस्मिंश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिदितश्चेतश्च परिभ्रमन्क्षुत्क्षाम-कण्ठो न किञ्चिदपि सत्त्वमाससाद । ततश्चास्तमनसमये महतीं गिरि-गुहामासाद्य प्रविष्टश्चिन्तयामास-नूनमेतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन्निभृतो भूत्वा तिष्ठामि ।
एतस्मिन्नन्तरे तत्-स्वामी दधिपुच्छो नाम शृगालः समायातः । स च यावत्पश्यति तावत्सिंह-पद-पद्धतिर्गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश्चाचिन्तयत्-अहो विनष्टोऽस्मि, नूनमस्यान्तर्गतेन सिंहेन भाव्यम् । तत्किं करोमि ? कथं ज्ञास्यामि ?एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः-अहो बिल !अहो बिल !इत्युक्त्वा तूष्णींभूय भूयोऽपि तथैव प्रत्यभाषत-भोः ! किं न स्मरसि यन्मया त्वया सह समयः कृतोऽस्ति ? यन्मया बाह्यात्समागतेन त्वं वक्तव्यः, त्वया चाहमाकरणीयः इति । तद्यदि मां नाह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि ।
अथ तच्छ्रुत्वा सिंहश्चिन्तितवान्-नूनमेषा गुहास्य समागतस्य सदा समाह्वानं करोति । परमद्य मद्-भयान्न किंचिद्ब्रूते । अथवा साध्विदमुच्यते—