इष्टेन पूर्तेन नलस्य वश्याः स्वर्भोगमत्रापि सृजन्त्यमर्त्याः । महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुद्गिरन्ति ॥
Metre: उपजातिः
सुवर्णशैलादवतीर्य तूर्णं स्वर्वाहिनीवारिकणावकीर्णैः । तं वीजयामः स्मरकेलिकाले पक्षैर्नृपं चामरबद्धसख्यैः ॥
Metre: उपजातिः
क्रियेत चेत्साधुविभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया । या स्वौजसां साधयितुं विलासैः तावत्क्षमानामपदं बहु स्यात् ॥
Metre: उपजातिः
राजा स यज्वा विबुधव्रजत्रा कृत्वाध्वराज्योपमयैव राज्यम् । भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः पूर्वं त्वहो शेषमशेषमन्त्यम् ॥
Metre: इन्द्रवज्रा
दारिद्र्यदारिद्रविणौघवर्षै रमोघमेघव्रतमर्थिसार्थे । संतुष्टमिष्टानि तमिष्टदेवं नाथन्ति के नाम न लोकनाथम् ॥
Metre: उपजातिः
अस्मत्किल श्रोत्रसुधां विधाय रम्भा चिरं भामतुलां नलस्य । तत्रानुरक्ता तमनाप्य भेजे तन्नामगन्धान्नलकूबरं सा ॥
Metre: इन्द्रवज्रा
स्वर्लोकमस्माभिरितः प्रयातैः केलीषु तद्गानगुणान्निपीय । हा हेति गायन्यदशोचि तेन नाम्नैव हाहा हरिगायनोऽभूत् ॥
Metre: इन्द्रवज्रा
शृण्वन्सदारस्तदुदारभावं हृष्यन्मुहुर्लोम पुलोमजायाः । पुण्येन नालोकत लोकपालः प्रमोदबाष्पावृतनेत्रमालः ॥
Metre: उपजातिः
सापीश्वरे शृण्वति तद्गुणौधान्प्रसह्य चेतो हरतोऽर्धशम्भुः । अभूदपर्णाङ्गुलिरुद्धकर्णा कदा न कण्डूयनकैतवेन ॥
Metre: उपजातिः
अलं सजन्धर्मविधौ विधाता रुणद्धि मौनस्य मिषेण वाणीम् । तत्कण्ठमालिङ्ग्य रसस्य तृप्तां न वेद तां वेदजडः स वक्राम् ॥
Metre: उपजातिः