हृदयदत्तसरोरुहया तया क्व सदृगस्तु वियोगनिमग्नया । प्रियधनुः परिरभ्य हृदा रतिः किमनुमर्तुमशेत चितार्चिषि ॥
Metre: द्रुतविलम्बित
अनलभावमियं स्वनिवासिनो न विरहस्य रहस्यमबुध्यत । प्रशमनाय विधाय तृणान्यसूञ्ज्वलति तत्र यदुज्झितुमैहत ॥
Metre: द्रुतविलम्बितम्
प्रकृतिरेतु गुणः स न योषितां कथमिमां हृदयं मृदु नाम यत् । तदिषुभिः कुसुमैरपि दुन्वता सुविवृतं विबुधेन मनोभुवा ॥
Metre: द्रुतविलम्बितम्
रिपुतरा भवनादविनिर्यतीं विधुरुचिर्गृहजालबिलैर्नु ताम् । इतरथात्मनिवारणशङ्कया ज्वरयितुं विशवेशधराविशत् ॥
Metre: द्रुतविलम्बितम्
हृदि विदर्भभुवोऽश्रुभृति स्फुटं विनमदास्यतया प्रतिबिम्बितम् । मुखदृगोष्ठमरोपि मनोभुवा तदुपमाकुसुमान्यखिलाः शराः ॥
Metre: द्रुतविलम्बितम्
विरहपाण्डुकपोलतले विधुः व्यधित भीमभुवः प्रतिबिम्बितः । अनुपलक्ष्यसितांशुतया मुखं निजसखं सुखमङ्कमृगार्पणात् ॥
Metre: द्रुतविलम्बितम्
विरहतापिनि चन्दनपांशुभिः वपुषि सार्पितपाण्डिममण्डना । विषधराभबिसाभरणा दधे रतिपतिं प्रति शंभुविभीषिकाम् ॥
Metre: द्रुतविलम्बितम्
विनिहितं परितापिनि चन्दनं हृदि तया धृतबुद्बुदमाबभौ । उपनमन्सुहृदं हृदयेशयं विधुरिवाङ्कगतोडुपरिग्रहः ॥
Metre: द्रुतविलम्बितम्
स्मरहुताशनदीपितया तया बहु मुहुः सरसं सरसीरुहम् । श्रयितुमर्धपथे कृतमन्तरा श्वसितनिर्मितमर्मरमुज्झितम् ॥
Metre: द्रुतविलम्बितम्
प्रियकरग्रहमेवमवाप्स्यति स्तनयुगं तव ताम्यति किं न्विति । जगदतुर्निहिते हृदि नीरजे दवधुकुड्मलनेन पृथुस्तनीम् ॥
Metre: द्रुतविलम्बित