निविशते यदि शूकशिखा पदे सृजति सा कियतीमिव न व्यथाम् । मृदुतनोर्वितनोतु कथं न ताम् अवनिभृत्तु निविश्य हृदि स्थितः ॥
Metre: द्रुतविलम्बित
मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशक्तिरभूदिदमीययोः अपि न संमुखवास्तुनि वस्तुनि ॥
Metre: द्रुतविलम्बितम्
हृदि दमस्वसुरश्रुझरप्लुते प्रतिफलद्विरहात्तमुखानतेः । हृदयभाजमराजत चुम्बितुं नलमुपेत्य किलागमि तन्मुखम् ॥
Metre: द्रुतविलम्बितम्
सुहृदमग्निमुदञ्चयितुं स्मरं मनसि गन्धवहेन मृगीदृशः । अकलि निःश्वसितेन विनिर्गमानुमितनिह्नुतवेशनमायिता ॥
Metre: द्रुतविलम्बितम्
विरहपाण्डिमरागतमोमषीशितिमतन्निजपीतिमवर्णकैः । दश दिशः खलु तद्दृगकल्पयल्लिपिकरी नलरूपकचित्रिताः ॥
Metre: द्रुतविलम्बितम्
स्मरकृतां हृदयस्य मुहुर्दशां बहु वदन्निव निःश्वसितानिलः । व्यधित वाससि कम्पमदः श्रिते त्रसति कः सति नाश्रयबाधने ॥
Metre: द्रुतविलम्बितम्
करपदाननलोचननामभिः शदतलैः सुतनोर्विरहज्वरे । रविमहो बहुपीतचरं चिराद् अनिशतापमिषादुदसृज्यत ॥
Metre: द्रुतविलम्बितम्
उदयति स्म तदद्भुतमालिभिः धरणिभृद्भुवि तत्र विमृश्य यत् । अनुमितोऽपि च बाष्पनिरीक्षणाद्द्व्यविभिचचार न तापकरो नलः ॥
Metre: द्रुतविलम्बितम्
हृदि विदर्भभुवः प्रहरञ्शरै रतिपतिर्निषधाधिपतेः कृते । कृततदन्तरगस्वदृढव्यधैः फलदनीतिरमूर्च्छदलं खलु ॥
Metre: द्रुतविलम्बितम्
विधुरमानि तया यदि भानुमान्कथमहो स तु तद्धृदयं तथा । अपि वियोगभरास्फुटनस्फुटीकृतदृषत्त्वमजिज्वलदंशुभिः ॥
Metre: द्रुतविलम्बितम्