नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 11 to 20 of 136 verses
Verse 11
पदे पदे भाविनि भाविनी तं यथा करप्राप्यमवैति नूनम् । तथा सखेलं चलता लतासु प्रतार्य तेनाचकृषे कृशाङ्गी ॥
Metre: उपेन्द्रवज्रा

Verse 12
रुषा निषिद्धालिजनां यदैनां छायाद्वितीयां कलयांचकार । तदा श्रमाम्भःकणभूषिताङ्गीं स कीरवन्मानुषवागवादीत् ॥
Metre: उपजातिः

Verse 13
अये ! कियद्यावदुपैषि दूरं व्यर्थे परिश्राम्यसि वा किमित्थम् । उदेति ते भीरपि किं नु बाले ! विलोकयन्त्या न घना वनालीः ॥
Metre: उपजातिः

Verse 14
वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः । आलीव पश्य प्रतिषेधतायं कपोतहुंकारगिरा वनाली ॥
Metre: उपजातिः

Verse 15
धार्यः कथंकारमहं भवत्या वियद्विहारी वसुधैकगत्या । अहो ! शिशुत्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन ॥
Metre: उपजातिः

Verse 16
सहस्रपत्रासनपत्रहंसवंशस्य पत्राणि पतत्रिणः स्मः । अस्मादृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥
Metre: उपजातिः

Verse 17
स्वर्गापगाहेममृणालिनीनां नालामृणालाग्रभुजो भजामः । अन्नानुरूपां तनुरूपऋद्धिं कार्ये निदानाद्धि गुणानधीते ॥
Metre: इन्द्रवज्रा

Verse 18
धातुर्नियोगादिह नैषधीयं लीलासरः सेवितुमागतेषु । हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोत्कः ॥
Metre: उपजातिः

Verse 19
विधेः कदाचिद्भ्रमणीविलासे श्रमातुरेभ्यः स्वमहत्तरेभ्यः । स्कन्धस्य विश्रान्तिमदां तदादि श्राम्यामि नाविश्रमविश्वगोऽपि ॥
Metre: उपजातिः

Verse 20
बन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषः स्यात् । एकं विना मादृशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य ॥
Metre: इन्द्रवज्रा

Showing 11 to 20 of 136 verses