१. देवाः सप्तर्षयः; यथा कुमारसम्भवे—(कुसं. ६.९४)
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम्।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः॥ २॥
२. मनुष्याः अविभवा भूपप्रभृतयः; हर्षचरिते यथा—
तस्य च सुता कुमारी रूपवती सर्वलक्षणोपेता।
तां स भवतः प्रयच्छति हच्छो प्रहिते सहास्माभिः(?)॥ ३॥
३. किन्नरमिथुनं चारुमत्यां यथा—
कनककुण्डलमण्डितगण्डया जघनदेशनिवेशितवीणया।
अमरराजपुरे वरकन्यया तव यशो विमलं परिगीयते॥ ४॥
४. वानरः हनूमान्; रामायणे यथा—(भट्टि. १०.३८)