१.२.२. (ख) प्रात्यागमिको यथा—
सहसा मा साहिव्वइ पिआगमो तीएँ विरहकिसिआए।
अच्चतपहरिसेण वि जा अ मआ सा मअ च्चेअ॥ १००॥
(सहसा मा साध्यतां प्रियागमस्तस्या विरहकृशायाः।
अत्यन्तप्रहर्षेणापि या च मृता सा मृतैव॥)
१.२.२. (ग) प्राथमसङ्गमिको यथा—
थरहरइ ऊरुजुअलं झिज्जइ वअणं ससज्झसं हिअअं।
बालाए पढमसुरए किं किं ण कुणंति अंगाइं॥ १०१॥
(थरथरायते ऊरुयुगलं क्षीयते वदनं ससाध्वसं हृदयम्।
बालायाः प्रथमसुरते किं किं न कुर्वन्त्यङ्गानि॥)