१.२.१ (क) हैमन्तिको यथा—(गास. ७४५ वे)
कस्स ण सद्धा गरुअत्तणंमि पइणा पसज्जमाणस्स।
जइ माणभंजणीओ ण होंति हेमंतराईओ॥ ९६॥
(कस्य न श्रद्धा गुरुत्वे पत्या प्रसाद्यमानस्य।
यदि मानभञ्जिन्यो न भवन्ति हेमन्तरात्र्यः॥)
१.२.१. (ख) वासन्तिको यथा—(गास. ५४३ वे.)
दीसइ ण चूअमुउलं अत्ता! ण अ वाइ मलअगंधवहो।
एंतं वसंतमासं साहइ उक्कंठिआ चेअं॥ ९७॥
(दृश्यते न चूतमुकुलं श्वश्रूः! न च वाति मलयगन्धवहः।
एष्यन्तं वसन्तमासं कथ/साधयत्युत्कण्ठितं चेतः॥)