सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः प्रिया-वक्त्राम्भोजं मलयज-रजश्चातिसुरभिः । स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तः क्षोभं न तु विषय-संसर्ग-विमुखे ॥
Metre: शिखरिणी
तरुणी-वेषोद्दीपित-कामा विकसज्-जाती-पुष्प-सुगन्धिः ।उन्नत-पीन-पयोधर-भारा प्रावृट्तनुते कस्य न हर्षम् ॥
Metre: आर्यागीति
वियद्-उपचित-मेघं भूमयः कन्दलिन्यो नव-कुटज-कदम्बामोदिनो गन्धवाहाः । शिखि-कुल-कल-केकारावरम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥
Metre: मालिनी
उपरि घनं घन-पटलं तिर्यग्गिरयोऽपि नर्तित-मयूराः । क्षितिरपि कन्दल-धवला दृष्टिं पथिकः क्व पातयति ॥
Metre: आर्या
इतो विद्युद्-वल्ली-विलसितमितः केतकि-तरोः स्फुरन्गन्धः प्रोद्यज्-जलद-निनद-स्फूर्जितमितः ।इतः केकि-क्रीडा-कल-कल-रवः पक्ष्मल-दृशां कथं यास्यन्त्येते विरह-दिवसाः सम्भृत-रसाः ॥
Metre: शिखरिणी
असूचि-सञ्चारे तमसि नभसि प्रौढ-जलदध्वनि- प्राज्ञंमन्ये पतति पृषतानां च निचये ।इदं सौदामिन्याः कनक-कमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि स्वैर-सुदृशाम् ॥
Metre: शिखरिणी
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्प-निमित्तमायत-दृशा गाढं समालिङ्ग्यते । जाताः शीकर-शीतलाश्च मरुतोरत्यन्त-खेद-च्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रिया-सङ्गमे ॥
Metre: शार्दूलविक्रीडितम्
अर्धं सुप्त्वा निशायाः सरभस-सुरतायास-सन्न-श्लथाङ्गप्रोद्भूतासह्य- तृष्णो मधु-मद-निरतो हर्म्य-पृष्ठे विविक्ते । सम्भोग-क्लान्त-कान्ता-शिथिल-भुज-लता-वर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छ-धारं पिबति न सलिलं शारदं मन्द-पुण्यः ॥
Metre: स्रग्धरा
हेमन्ते दधि-दुग्ध-सर्पिरशना माञ्जिष्ठ-वासो-भृतः काश्मीर-द्रव-सान्द्र-दिग्ध-वपुषश्छिन्ना विचित्रै रतैः । वृत्तोरु-स्तन-कामिनोजन-कृताश्लेषा गृहाभ्यन्तरे ताम्बूली-दल-पूग-पूरित-मुखा धन्याः सुखं शेरते ॥
Metre: शार्दूलविक्रीडितम्
प्रदुयत्-प्रौढ-प्रियङ्गु-द्युति-भृति विकसत्-कुन्द-माद्यद्-द्विरेफे काले प्रालेय-वात-प्रचल-विलसितोदार-मन्दार-धाम्नि । येषां नो कण्ठ-लग्ना क्षणमपि तुहिन-क्षोद-दक्षा मृगाक्षी तेसामायाम-यामा यम-सदन-समा यामिनी याति यूनाम् ॥
Metre: स्रग्धरा