शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Enable Parallel


Showing 91 to 100 of 109 verses
Verse 91
रवि-निशाकरयोर्ग्रह-पीडनं गज-भुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥
Metre: द्रुतविलम्बितम्

Verse 92
सृजति तावदशेष-गुणकरं पुरुष-रत्नमलङ्करणं भुवः । तदपि तत्-क्षण-भङ्गि करोति चेदहह कष्टमपण्डितता विधेः ॥
Metre: द्रुतविलम्बितम्

Verse 93
पत्रं नैव यदा करीर-विटपे दोषो वसन्तस्य किम्नोलूकोऽप्यवओकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातक-मुखे मेघस्य किं दूषणम्यत्पूर्वं विधिना ललाट-लिखितं तन्मार्जितुं कः क्षमः ॥
Metre: शार्दूलविक्रीडितम्

Verse 94
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियत-कर्मैक-फलदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना नमस्तत्-कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥
Metre: शिखरिणी

Verse 95
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माड-भाण्डोदरे विष्णुर्येन दशावतार-गहने क्षिप्तो महा-सङ्कटे । रुद्रो येन कपाल-पाणि-पुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥
Metre: शार्दूलविक्रीडितम्

Verse 96
नैवाकृतिः फलति नैवअ कुलं न शीलं विद्यापि नैव न च यत्न-कृतापि सेवा । भाग्यानि पूर्व-तपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥
Metre: वसन्ततिलका

Verse 97
वने रणे शत्रु-जलाग्नि-मध्ये महार्णवे पर्वत-मस्तके वा । सुप्तं प्रमत्तं विषम-स्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥
Metre: उपजातिः

Verse 98
या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः प्रत्यक्षं कुरुते परीक्षममृतं हालाहलं तत्-क्षणात् । तामाराधय सत्-क्रियां भगवतीं भोक्तुं फलं वाञ्छितं हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥
Metre: शार्दूलविक्रीडितम्

Verse 99
गुणवदगुणवद्वा कुर्वता कार्य-जातं परिणतिरवधार्या यत्नतः पण्डितेन ।अतिरभस-कृतानां कर्मणामाविपत्तेर्भवति हृदय-दाही शल्य-तुल्यो विपाकः ॥
Metre: मालिनी

Verse 100
स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनौघैः सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्क-मूलस्य हेतोः । कृत्वा कर्पूर-खण्डान्वृत्तिमिह कुरुते कोद्रवाणां समन्तात्प्राप्येमां कर्म्-भूमिं न चरति मनुजो यस्तोप मन्द-भाग्यः ॥
Metre: स्रग्धरा

Showing 91 to 100 of 109 verses