चुम्बन्तो गण्ड-भित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षः-सूत्कञ्चुकेषु स्तन-भर-पुलकोद्भेदमापादयन्तः ।ऊरू-नाकम्पयन्तः पृथु-जघन-तटात्स्रंसयन्तोऽंशुकानि व्यक्तं कान्ता-जनानां विट-चरित-भृतः शैशिरा वान्ति वाताः ॥
Metre: स्रग्धरा
केशानाकुलयन्दृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्पुलकोद्गमं प्रकटयन्नावेग-कम्पं शनैः । बारं बारमुदार-सीत्कृत-कृतो दन्त-च्छदान्पीडयन्प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥
Metre: शार्दूलविक्रीडितम्
यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न मनः-कामः सरोजिन्याः ॥
Metre: आर्या
वैराग्ये संचरत्येको नीतौ भ्रमति चापरः । शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥
Metre: अनुष्टुप्