शम्भु-स्वयम्भु-हरयो हरिणेक्षणानां येनाक्रियन्त सततं गृह-कुम्भ-दासाः । वाचामगोचर-चरित्र-विचित्रिताय तस्मै नमो भगवते मकर-ध्वजाय ॥
Metre: वसन्ततिलका
स्मितेन भावेन च लज्जया भिया पराण्मुखैरर्ध-कटाक्ष-वीक्षणैः । वचोभिरीर्ष्या-कलहेन लीलया समस्त-भावैः खलु बन्धनं स्त्रियः ॥
Metre: वंशस्थम्
भ्रू-चातुर्यात्कुष्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जितान्ताश्च हासाः । लीला-मन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भूषणं चायुधं च ॥
Metre: शालिनी
क्वचित्स-भ्रू-भङ्गैः क्वचिदपि च लज्जा-परिगतैः क्वचिद्भूरि-त्रस्तैः क्वचिदपि च लीला-विललितैः । कुमारीणामेतैर्मदन-सुभगैर्नेत्र-वलितैः स्फुरन्-नीलाब्जानां प्रकर-परिकीर्णा इव दिशः ॥
Metre: शिखरिणी
वक्त्रं चन्द्र-विकासि पङ्कज-परीहास-क्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनी-जिष्णुः कचानां चयः । बक्षोजाविभ-कुम्भ-विभ्रम-हरौ गुर्वी नितम्ब-स्थली वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ॥
Metre: शार्दूलविक्रीडितम्
स्मित-किञ्चिन्-मुग्धं सरल-तरलो दृष्टि-विभवः परिस्पन्दो वाचामभिनव-विलासोक्ति-सरसः । गतानामारम्भः किसलयित-लीला-परिकरः स्पृशन्त्यास्तारुण्यं किमिव न हि रम्यं मृगदृशः ॥
Metre: शिखरिणी
द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेम-प्रसन्नं मुखं घ्रातवेष्वपि किं तद्-आस्य-पवनः श्रव्येषु किं तद्-वचः । किं स्वाद्येषु तद्-ओष्ठ-पल्लव-रसः स्पृश्येषु किं तद्-वपुर्ध्येयं किं नव-यौवने सहृदयैः सर्वत्र तद्-विभ्रमाः ॥
Metre: शार्दूलविक्रीडितम्
एताश्चलद्-वलय-संहति-मेखलोत्थझङ्कार- नूपुर-पराजित-राज-हंस्यः । कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्त-मुग्ध-हरिणी-सदृशैः कटाक्षैः ॥
Metre: वसन्ततिलका
कुङ्कुम-पङ्क-कलङ्कित-देहा गौर-पयोधर-कम्पित-हारा । नूपुर-हंस-रणत्-पद-पद्मा कं न वशीकुरुते भुवि रामा ॥
Metre: दोधकम्
नूनं हि ते कवि-वरा विपरीत-वाचो ये नित्यमाहुरबला इति कामिनीस्ताः । याभिर्विलोलितर-तारक-दृष्टि-पातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥
Metre: वसन्ततिलका