विश्रम्य विश्रम्य वन-द्रुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥
Metre: उपजातिः
अदर्शने दर्शन-मात्र-कामा दृष्ट्वा परिष्वङ्ग-सुखैक-लोला ।आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदम् ॥
Metre: उपजातिः
मालती शिरसि जृम्भणं मुखे चन्दनं वपुषि कुङ्कुमाविलम् । वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः ॥
Metre: रथोद्धता
प्राङ्मामेति मनागनागत-रसं जाताभिलाषां ततः सव्रीडं तदनु श्लथोद्यममथ प्रध्वस्त-धैर्यं पुनः । प्रेमार्द्रं स्पृहणीय-निर्भर-रहः क्रीडा-प्रगल्भं ततो निःसङ्गाङ्ग-विकर्षणाधिक-सुख-रम्यं कुल-स्त्री-रतम् ॥
Metre: शार्दूलविक्रीडितम्
उरसि निपतितानां स्रस्त-धम्मिल्लकानां मुकुलित-नयनानां किञ्चिद्-उन्मीलितानाम् ।उपरि सुरत-खेद-स्विन्न-गण्ड-स्थलानामधर- मधु वधूनां भाग्यवन्तः पिबन्ति ॥
Metre: मालिनी
आमीलित-नयनानां यः सुरतरसोऽनु संविदं भाति । मिथुरैर्मिथोऽवधारितमवितथमिदमेव काम-निर्बर्हणम् ॥
Metre: गीति
इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मन्मथा विकाराः । तदपि च न कृतं नितम्बिनीनां स्तन-पतनावधि जीवितं रतं वा ॥
Metre: पुष्पिताग्रा
राजस्-तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं को वार्थोऽर्थैः प्रभूतैः स्व-वपुषि गलिते यौवने सानुरागे । गच्छामः सद्म यावद्विकसित-नयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥
Metre: स्रग्धरा
रागस्यागारमेकं नरक-शत-महा-दुःख-सम्प्राप्ति-हेतुर्मोहस्योत्पत्ति- बीजं जलधर-पटलं ज्ञान-ताराधिपस्य । कन्दर्पस्यैक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं लोकेऽस्मिन्न ह्यर्थ-व्रज-कुल-भवन-यौवनादन्यदस्ति ॥
Metre: स्रग्धरा
शृङ्गार-द्रुम-नीरदे प्रसृमर-क्रीडा-रस-स्रोतसि प्रद्युम्न-प्रिय-बान्धवे चतुर-वाङ्-मुक्ता-फलोदन्वति । तन्वी-नेत्र-चकोर-पावन-विधौ सौभाग्य-लक्ष्मी-निधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥
Metre: शार्दूलविक्रीडितम्