शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Enable Parallel


Showing 31 to 40 of 104 verses
Verse 31
संसारेऽस्मिन्नसारे कुनृपति-भवन-द्वार-सेवा-कलङ्कव्यासङ्ग- व्यस्त-धैर्यं कथममल-धियो मानसं संविदध्युः । यद्येताः प्रोद्यद्-इन्दु-द्युति-निचय-भृतो न स्युरम्भोज-नेत्राः प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमन्-मध्य-भाजस्तरुण्यः ॥
Metre: स्रग्धरा

Verse 32
सिद्धाध्यासित-कन्दरे हर-वृष-स्कन्धावरुग्ण-द्रुमे गङ्गा-धौत-शिला-तले हिमवतः स्थाने स्थिते श्रेयसि । कः कुर्वीत शिरः प्रणाम-मलिनं म्लानं मनस्वी जनो यद्-वित्रस्त-कुरङ्ग-शाव-नयना न स्युः स्मरास्त्रं स्त्रियः ॥
Metre: शार्दूलविक्रीडितम्

Verse 33
संसार तव पर्यन्त-पदवी न दवीयसी ।अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥
Metre: अनुष्टुप्

Verse 34
दिश वन-हरिणीभ्यो वंश-काण्ड-च्छवीनां कवलमुपल-कोटि-च्छिन्न-मूलं कुशानाम् । शक-युवति-कपोलापाण्डुताम्बूल-वल्लीदलमरुण-नखाग्रैः पाटितं वा वधूभ्यः ॥
Metre: मालिनी

Verse 35a
असाराः सर्वे ते विरति-विरसाः पाप-विषया जुगुप्स्यन्तां यद्वा ननु सकल-दोषास्पदमिति । तथाप्येतद्-भूमौ नहि पर-हितात्पुण्यमधिकं न चास्मिन्संसारे कुवलय-दृशो रम्यमपरम् ॥
Metre: शिखरिणी

Verse 35b
एतत्-काम-फलो लोके यद्द्वयोरेक-चित्तता ।अन्य-चित्त-कृते कामे शवयोरिव सङ्गमः ॥
Metre: अनुष्टुप्

Verse 36
मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किमु भूधराणामत स्मर-स्मेर-विलासिनीनाम् ॥
Metre: उपजातिः

Verse 37
संसारे स्वप्न-सारे परिणति-तरले द्वे गती पण्डितानां तत्त्व-ज्ञानामृताम्भः-प्लव-ललित-धियां यातु कालः कथञ्चित् । नो चेन्मुग्धाङ्गनानां स्तन-जघन-घनाभोग-सम्भोगिनीनां स्थूलोपस्थ-स्थलीषु स्थगित-करतल-स्पर्श-लीलोद्यमानाम् ॥
Metre: स्रग्धरा

Verse 38
आवासः क्रियतां गङ्गे पाप-हारिणि वारिणि । स्तन-द्वये तरुण्या वा मनोहारिणि हारिणि ॥
Metre: अनुष्टुप्

Verse 39
किमिह बहुभिरुक्तैर्युक्ति-शून्यैः प्रलापैर्द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ।अभिनव-मद-लीला-लालसं सुन्दरीणां स्तन-भर-परिखिन्नं यौवनं वा वनं वा ॥
Metre: मालिनी