वितीर्णे सर्वस्वे तरुण-करुणा-पूर्ण-हृदयाः स्मरन्तः संसारे विगुण-परिणामां विधि-गतिम् । वयं पुण्यारण्ये परिणत-शरच्-चन्द्र-किरणास्त्रियामा नेस्यामो हर-चरण-चिन्तैक-शरणाः ॥
Metre: शिखरिणी
कदा वाराणस्याममर-तटिनी-रोधसि वसन्वसानः कौपीनं शिरसि निदधानोऽञ्जलि-पुटम् ।अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥
Metre: शिखरिणी
उद्यानेषु विचित्र-भोजन-विधिस्तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रममितं भिक्षाटनं मण्डनम् ।आसन्नं मरणं च मङ्गल-समं यस्यां समुत्पद्यते तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥
Metre: शार्दूलविक्रीडितम्
स्नात्वा गाङ्गैः पयोभिः शुचि-कुसुम-फलैरर्चयित्वा विभो त्वा ध्येये ध्यानं निवेश्य क्षिति-धर-कुहर-ग्राव-पर्यङ्क-मूले ।आत्मारामः फलाशी गुरु-वचन-रतस्त्वत्-प्रसादात्स्मरारे दुःखं मोक्ष्ये कदाहं सम-कर-चरणे पुंसि सेवासमुत्थम् ॥
Metre: स्रग्धरा
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः ॥
Metre: अनुष्टुप्
पाणिं पात्रयतां निसर्ग-शुचिना भैक्षेण सन्तुष्यतां यत्र क्वापि निषीदतां बहु-तृणं विश्वं मुहुः पश्यताम् ।अत्यागेऽपि तनोरखण्ड-परमानन्दावबोध-स्पृशा मध्वा कोऽपि शिव-प्रसाद-सुलभः सम्पत्स्यते योगिनाम् ॥
Metre: शार्दूलविक्रीडितम्
कौपीनं शत-खण्ड-जर्जरतरं कन्था पुनस्तादृशी नैश्चिन्त्यं निरपेक्ष-भैक्ष्यमशनं निद्रा श्मशाने वने । स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा स्थैर्यं योग-महोत्सवेऽपि च यदि त्रैलोक्य-राज्येन किम् ॥
Metre: शार्दूलविक्रीडितम्
ब्रह्माण्डं मण्डली-मात्रं किं लोभाय मनस्विनः । शफरी-स्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥
Metre: अनुष्टुप्
मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्-काङ्क्षिणी मा स्म भूर्भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि । सद्यः स्यूत-पलाश-पत्र-पुटिका-पात्रैः पवित्री-कृतैर्भिक्षा-वस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ॥
Metre: शार्दूलविक्रीडितम्
महा-शय्या पृथ्वी विपुलमुपधानं भुज-लतां वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । शरच्-चन्द्रो दीपो विरति-वनिता-सङ्ग-मुदितः सुखी शान्तः शेते मुनिरतनु-भूतिर्नृप इव ॥
Metre: शिखरिणी