तत् संभाषणस्वेदाद्रीकृतस्पर्शे किमिति लज्जिष्यसे ?॥)
घेत्तूण चुण्णमुठ्ठिं हरिसूससिआए हलिअजाआए।
फिसलेमि त्ति पिअअम—हत्थे गंधोअअं जाअं॥ २५८॥
{गृहीत्वा चूर्णमुष्टिं हर्षोच्छ्वसितायाः हलिकजायायाः।
स्खलामीति प्रियतम—हस्ते गन्धोदकं जातम्॥}
वर—गोत्तुग्गीआ—अण्णणेण रोमांच—सेअ—सलिलेहिं।
विउडिज्जइ होंतवहूए उअ वारिज्जमंडणअं॥ २५९॥
{वरगोत्रोद्गीताकर्णनेन रोमाञ्चस्वेदसलिलैः।