थेरो पइ त्ति मा रुअसु पुत्ति ! दिण्णा सि सुग्गामे॥ २५३॥
(आसन्ननिकुञ्जे जीर्णदेवकुले बहुयुवसंकीर्णे।
स्थविरः पतिरिति मा रुदिहि पुत्रि ! दत्ताऽसि सुग्रामे॥)
कोपो यत्र भ्रुकुटिरचना विग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि, न च मे मन्युमोक्षः खलायाः॥ २५४॥
तह माणो माणधएँ तीअ एमेअ दुरमणुबद्धो।
जह से अणुणीअ पिओ एक्कग्गाम व्वि/च्चिअ पउत्थो॥ २५५॥
(तथा मानो मानधनाया तया एवमेव दूरमनुबद्धः।