यथा तस्या अनुनीय प्रिय एकग्राम एव प्रोषितः॥)
धीराऽनूढा यथा—(गास. ४.६७)
धीरावलंबिरीए वि गुरुअणपुरओ तुमम्मि बोलीणे।
पडिओ से अच्छिणिमीलणेण पम्हट्ठिओ बाहो॥ २५६॥
(धैर्यावलम्बनशीलाया अपि गुरुजनपुरतस्त्वयि व्यतिक्रान्ते।
पतितस्तस्या अक्षिनिमीलनेन पक्ष्मस्थितो बाष्पः॥)
दिट्ठे जं पुलइज्जसि थरहरसि पिअम्मि जं समासण्णे।
तं संभासणसेओल्लिफंसणे किं वि लज्जिहिसि ?॥ २५७॥
(दृष्टे यत् पुलकायसे थरहरायसे प्रिये यत् समासन्ने।