बाष्पार्द्रेणास्या अजल्पताऽपि मुखेन॥)
धीरा मुग्धा यथा—(अमरुक. ४१)
पटालग्ने पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि शनकैः।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना ह्रिया क्लाम्यत्यन्तः प्रथमपरिहासे नववधूः॥ २६२॥
अविआविअक्खरवआ चिरेण अणुबंधपुच्छिअ—पलत्ता।
णववहुपढमुल्लावा वरस्स हिअए ण दासंति/माएंति॥ २६३॥
(अविभाविताक्षरपदा चिरेण अनुबन्धपृष्टप्रलपिंताः।
नववधूप्रथमोल्लापा वरस्य हृदये न मान्ति॥)
धीराऽनूढा मुग्धा यथा—(गास. २.३७)