तह वि बला गामणिउत्तवअणकमले/णंदणस्स वलइ दिठ्ठी॥ ४२३॥
(यदि खिद्यते खिद्यतां नाम मातुलानि! परलोकव्यसनिको लोकः।
तथाऽपि बलाद् ग्रामणीपुत्रवदनकमले/नन्दनस्य वलते दृष्टिः॥)
धीराऽनूढा प्रगल्भा यथा—(गास. ८५७वे.)
कह णु गआ? कह दिट्ठो? किं भणिअं? किं व तेण पडिवण्णं?।
एअं च्चिअ ण समप्पइ पुणरुत्तं जंपमाणीए॥ ४२४॥
(कथं नु गता? कथं दृष्टः? किं भणितं? किं वा तेन प्रतिपन्नम्?।
एवमेव न समाप्यते पुनरुक्तं जल्पमानायाः॥)
ऊढा प्रगल्भा यथा—(गास. ३. ३७)
पइपुरओ व्विअ णिज्जइ विच्चुअदठ्ठ त्ति जारवेज्जघ/हरं।