वंकं च पुलोएउं अवि ए केण सिक्खविआ?॥ ३२३॥
(चङ्क्रमितुं सलीलं हसितुं च सविभ्रमं हतकुमारी।
वक्रं च प्रलोकितुं अपि ए केन शिक्षापिता?॥)
उत्तमा धीरोढा प्रगल्भा यथा—(गास. १.३५)
दिअरस्स असुत्थमणस्स कुलवहू णिअअकुङ्ङलिहिआइं।
दिहअं कहेइ रामाणुलग्गसोमित्तिचरिआइं॥ ३२४॥
(देवरस्याशुद्धमनसः कुलवधूर्निजक(निलय) कुड्यलिखितानि।
दिवसं कथयति रामानुलग्नसैमित्रिचरितानि॥)
उत्तमा धीरोढा प्रगल्भा यथा—
ओउच्छिआ सि कोमुइ! तुमं पि मामि! कोमुईचंददे।