मरउ ण तुमं भणिस्सं मरणं वि सलाहणिज्जं से॥ ३२१॥
(सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः॥)
उत्तमोढा प्रगल्भा यथा—(गास. ३.५)
फुट्टंतेण वि हिअएण सुहअ! कह णिव्वुइज्जिए तम्मि।
अद्दाए पडिबिबं व जंमि दुक्खं ण संकमइ॥ ३२२॥
(स्फुटताऽपि हृदयेन सुभग! कथं निवेद्यते तस्मिन्।
आर्द्रादर्शे प्रतिबिम्बमिव यस्मिन् दुःखं न संक्रामति॥)
उत्तमाऽनूढा प्रगल्भा यथा—
चक्कम्म़िउं अ सलीलं हसिउं अ सविब्भमं हअकुमारी।