अभिसारयसि सपुण्यं कुमारि! कं ग्रामतरुणानाम् ?॥)
ह्णण्हाणहलिद्दाभरिअंतराइ जालाइ जालवलअस्स।
सोहंती किलिंचअ—कंटएण कं काहिसि कअत्थं?॥ ३२८॥
(स्नानहरिद्राभृतान्तराणि जालानि जालवलयस्य।
शोधयन्ती क्षुद्रकण्टकेन कं करिष्यसि कृतार्थम्?॥)
मध्या धीरा यथा—(गास. १.७३)
जं जं सो णिज्झाअइ अंगोआसं महं अणिमिसच्छो।
पच्छाएमि अ तं तं इच्छामि अ तेण दीसंतं॥ ३२९॥
(यं यं स निध्यायत्यङ्गावकाशं ममानिमिषाक्षः।