उत्तमा मुग्धा यथा—(गास. ६.७२)
मअणग्गिणो व्व धूमं मोहणपिंच्छं व्व लोअदिठ्ठीए।
जोव्वणधअं व मुद्धे ! वहसि सुअंधं चिहुरभारं॥ ३०१॥
(मदनाग्नेरिव धूमं मोहनपिञ्छिकामिव लोकदृष्टेः।
यौवनध्वजमिव मुग्धे ! वहसि सुगन्धं चिकुरभारम्॥)
सहि ! साहसु तेण समं अहं पि किं णिग्गआ ? पहाअम्मि।
अण्ण च्चिअ दीसइ जेण दप्पणे कावि सा सुमुही/साममुही॥ ३०२॥
(सखि ! साधय तेन सममहमपि किं निर्गता ? प्रभाते।
अन्येव दृश्यते येन दर्पणे काऽपि सा सुमुखी/श्याममुखी॥)