तन्नालीकनले चलेतरमनाः साम्यान्मनागप्यभूदप्यग्रे चतुरः स्थितान्न चतुरा पातुं दृशा नैषधान् । आनन्दाम्बुनिधौ निमज्ज्य नितरां दूरं गता तत्तलालंकारीभवनाज्जनाय ददती पातालकन्याभ्रमम् ॥
Metre: शार्दूलविक्रीडितम्
सर्वस्वं चेतसस्तां नृपतिरपि दृशे प्रीतिदायं प्रदाय प्रापत्तद्दृष्टिमिष्टातिथिममरदुरापामपाङ्गोत्तरङ्गम् । आनन्दान्ध्येन वन्ध्यानकृत तदपराकूतपातान्स रत्याः पत्या पीयूषधारावलनविरचितेनाशुगेनाशु लीढः ॥
Metre: स्रग्धरा
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तस्य द्वादश एष मातृचरणाम्भोजालिमौलेर्महाकाव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्