नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 51 to 56 of 56 verses
Verse 51
इत्थं यथेह मदभाग्यमनेन मन्ये कल्पद्रुमोऽपि स मया खलु याच्यमानः । संकोचसंज्वरदलाङ्गुलिपल्लवाग्रपाणीभवन्भवति मां प्रति बद्धमुष्टिः ॥
Metre: वसन्ततिलका

Verse 52
देव्याः करे वरणमाल्यमथार्पये वा यो वैरसेनिरिह तत्र निवेशयेति । सैषा मया मखभुजां द्विषती कृता स्यात्स्वस्मै तृणाय तु विहन्मि न बन्धुरत्नम् ॥
Metre: वसन्ततिलका

Verse 53
यः स्यादमीषु परमार्थनलः स मालामङ्गीकरोतु वरणाय ममेति चैनाम् । तं प्रापयामि यदि तत्तु विसृज्य लज्जां कुर्वे कथं जगति शृण्वति ही विडम्बः ॥
Metre: वसन्ततिलका

Verse 54
इतरनलतुलाभागेषु शेषाः सुधाभिः स्नपयति मम चेतो नैषधः कस्य हेतोः । प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये विलसति चरमेऽनुप्रासभासां विलासः ॥
Metre: मालिनी

Verse 55
इति मनसि विकल्पानुद्यतः संत्यजन्ती क्वचिदपि दमयन्ती निर्णयं नाससाद । मुखमथ परितापास्कन्दितानन्दमस्या मिहिरविरचितावस्कन्दमिन्दुं निनिन्द ॥
Metre: मालिनी

Verse 56
श्रीहर्शं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । स्वादूत्पादभृति त्रयोदशतयादेश्यस्तदीये महाकाव्येऽयं व्यरमन्नलस्य चरिते सर्गो रसाम्भोनिधिः ॥
Metre: शार्दूलविक्रीडितम्

Showing 51 to 56 of 56 verses