भूभर्तुरस्य रतिरेधि मृगाक्षि मूर्ता सोऽयं तवास्तु कुसुमायुध एव मूर्तः । भातं च ताविव पुरा गिरिशं विराद्धमाराद्धुमाशु पुरि तत्र कृतावतारौ ॥
Metre: वसन्ततिलका
कामानुशासनशते सुतरामधीती सोऽयं रहो नखपदैर्महतु स्तनौ ते । रुष्टाद्रिजाचरणकुङ्कुमपङ्करागसंकीर्णशंकरशशाङ्ककलाङ्ककारैः ॥
Metre: वसन्ततिलका
पृथ्वीश एष नुदतु त्वदनङ्गतापमालिङ्ग्य कीर्तिचयचामरचारुचापः । सङ्ग्रामसंगतविरोधिशिरोधिदण्डखण्डिक्षुरप्रशरसंप्रसरत्प्रतापः ॥
Metre: वसन्ततिलका
वक्षस्त्वदुग्रविरहादपि नास्य दीर्णं वज्रायते पतनकुण्ठतशत्रुशस्त्रम् । तत्कन्दकन्दलतया भुजयोर्न तेजो वह्निर्नमत्यरिवधूनयनाम्बुनापि ॥
Metre: वसन्ततिलका
किं न द्रुमा जगति जाग्रति लक्षसंख्यास्तुल्योपनीतपिककाकफलोपभोगाः । स्तुत्यस्तु कल्पविटपी फलसंप्रदानं कुर्वन्स एष विबुधानमृतैकवृत्तीन् ॥
Metre: वसन्ततिलका
अस्मै करं प्रवितरन्तु नृपा न कस्मादस्यैव तत्र यदभूत्प्रतिभूः कृपाणः । दैवाद्यदा प्रवितरन्ति न ते तदैव नेदंकृपा निजकृपाणकरग्रहाय ॥
Metre: वसन्ततिलका
एतद्बलैः क्षणिकतामपि भूखुराग्रस्पर्शायुषां रयरसादसमापयद्भिः । दृक्पेयकेवलनभःक्रमणप्रवाहैर्वाहैरलुप्यत सहस्रदृगर्वगर्वः ॥
Metre: वसन्ततिलका
तद्वर्णनासमय एव समेतलोकशोभावलोकनपरा तमसौ निरासे । मानी तया गुणविदा यदनादृतोऽसौ तद्भूभृतां सदसि दुर्यशसेव मम्लौ ॥
Metre: वसन्ततिलका
सानन्तानाप्यतेजःसखनिखिलमरुत्पार्थिवान्दिष्टभाजश्चित्तेनाशाजुषस्तान्सममसमगुणान्मुञ्चती गूढभावा । पारेवाग्वर्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गी निःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः ॥
Metre: स्रग्धरा
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । शृङ्गारामृतशीतगावयमगादेकादशस्तन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्