सोऽपि तदाकर्ण्य पलायितुमिच्छंस्तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश्च ।
अतोऽहं ब्रवीमि-त्यक्ताश्चाभ्यन्तरा येन इति ।
तदाकर्ण्य पिङ्गलक आह—भो दमनक ! कः प्रत्ययोऽत्र विषये यत्स ममोपरि दुष्ट-बुद्धिः ।
स आह—यदद्य ममाग्रे तेन निश्चयः कृतो यत्प्रभाते पिङ्गलकं वधिष्यामि । तदत्रैव प्रत्ययः । प्रभातेऽवसर-वेलायामारक्त-मुख-नयनः स्फुरिताधरो दिशोऽवलोकयन्ननुचित-स्थानोपविष्टस्त्वां क्रूर-दृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यदुचितं तत्कर्तव्यम् । इति कथयित्वा सञ्जीवक-सकाशं गतस्तं प्रणम्योपविष्टः । सञ्जीवकोऽपि सोद्वेगाकारं मन्द-गत्या समायान्तं तमुद्वीक्ष्य सादरतरमुवाच-भो मित्र ! स्वागतम् । चिराद्दृष्टोऽसि । अपि शिवं भवतः । तत्कथय येनादेयमपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च—
ते धन्यास्ते विवेक-ज्ञास्ते सभ्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥
Metre: अनुष्टुप्
दमनक आह—भोः ! कथं शिवं सेवक-जनस्य ।
सम्पत्तयः परायत्ताः सदा चित्तमनिर्वृतम् । स्व-जीवितेऽप्यविश्वासस्तेषां ये राज-सेवकाः ॥
Metre: अनुष्टुप्
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥
Metre: अनुष्टुप्
तावज्जन्माति-दुःखाय ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिरहो दुःख-परम्परा ॥
Metre: अनुष्टुप्