सोऽब्रवीत्- कथा ९ मन्द-विसर्पिणी-नाम-यूका-कथा
अस्ति कस्यचिन्महीपतेर्मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्ये-द्युश्च तत्र शयने क्वचिद्भ्राम्यन्नग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भोऽग्निमुख कुतस्त्वमत्रानुचित-स्थाने समायातः । तद्यावन्न कश्चिद्वेत्ति तावच्छीघ्रं गम्यतामिति । स आह—भगवति गृहागतस्यासाधोरपि नैतद्युज्यते वक्तुम् । उक्तं च—
एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान्प्रणयिनः प्रत्यालपन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥
Metre: शार्दूलविक्रीडितम्
अपरं मयानेक-मानुषाणामनेक-विधानि रुधिराण्यास्वादितान्याहार-दोषात्कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन्मधुर-रक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि तदस्य नृपतेर्विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्व्-आहार-वशादस्य शरीरे यन्मिष्टं रक्तं संजातं तद्-आस्वादनेन सौख्यं सम्पादयामि जिह्वाया इति ।उक्तं च- रङ्कस्य नृपतेर्वापि जिह्वा-सौख्यं समं स्मृतम् । तन्-मात्रं च स्मृतं सारं तद्-अर्थं यतते जनः ॥
यद्येव न भवेल्लोके कर्म जिह्वा-प्रतुष्टिदम् । तन्न भृत्यो भवेत्कश्चित्कस्यचिद्वशगोऽथ वा ॥
Metre: अनुष्टुप्
तन्मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्-सकाशाद्भोजनमर्थनीयम् । तन्न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते ।
तच्छ्रुत्वा मन्दविसर्पिण्याह-भो मत्कुण !अस्य नृपतेर्निद्रा-वशं गतस्य रक्तमास्वादयामि ।
पुनस्त्वमग्निमुखश्चपलश्च-तद्यदि मया सह रक्त-पानं करोषि तत्तिष्ठ ।अभीष्टतर-रक्तमास्वादय । सोऽब्रवीत्-भगवत्येवं करिष्यामि । यावत्त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन्मम देव-गुरु-कृतः शपथः स्याद्यदि तदास्वादयामि ।एवं तयोः परस्परं वदतोः स राजा तच्-छयनमासाद्य प्रसुप्तः ।अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज्जाग्रतमपि तं मही-पतिमदशत् ।अथ वा साध्विदमुच्यते । स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
अथासौ महीपतिः सूच्य्-अग्र-विद्ध इव तच्-छयनं त्यक्त्वा तत्-क्षणादेवोत्थितः । अहो ज्ञायतामत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस्तत्र स्थितास्ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश्चापल्यात्खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्यपि वस्त्र-सन्ध्य्-अन्तर्-गता तैर्दृष्टा व्यापादिता च । अतोऽहं ब्रवीमि-न ह्यविज्ञात-शीलस्य इति ।
एवं ज्ञात्वा त्वयिष वध्यः । नो चेत्त्वां व्यापादयिष्यतीति । उक्तं च—