पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 591 to 600 of 1051 verses
सोऽब्रवीत्- कथा ९ मन्द-विसर्पिणी-नाम-यूका-कथा

अस्ति कस्यचिन्महीपतेर्मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्ये-द्युश्च तत्र शयने क्वचिद्भ्राम्यन्नग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भोऽग्निमुख कुतस्त्वमत्रानुचित-स्थाने समायातः । तद्यावन्न कश्चिद्वेत्ति तावच्छीघ्रं गम्यतामिति । स आह—भगवति गृहागतस्यासाधोरपि नैतद्युज्यते वक्तुम् । उक्तं च—

Verse 276
एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान्प्रणयिनः प्रत्यालपन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥
Metre: शार्दूलविक्रीडितम्

Verse 277
अपरं मयानेक-मानुषाणामनेक-विधानि रुधिराण्यास्वादितान्याहार-दोषात्कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन्मधुर-रक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि तदस्य नृपतेर्विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्व्-आहार-वशादस्य शरीरे यन्मिष्टं रक्तं संजातं तद्-आस्वादनेन सौख्यं सम्पादयामि जिह्वाया इति ।उक्तं च- रङ्कस्य नृपतेर्वापि जिह्वा-सौख्यं समं स्मृतम् । तन्-मात्रं च स्मृतं सारं तद्-अर्थं यतते जनः ॥

Verse 278
यद्येव न भवेल्लोके कर्म जिह्वा-प्रतुष्टिदम् । तन्न भृत्यो भवेत्कश्चित्कस्यचिद्वशगोऽथ वा ॥
Metre: अनुष्टुप्

तन्मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्-सकाशाद्भोजनमर्थनीयम् । तन्न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते ।

तच्छ्रुत्वा मन्दविसर्पिण्याह-भो मत्कुण !अस्य नृपतेर्निद्रा-वशं गतस्य रक्तमास्वादयामि ।

Verse 280
पुनस्त्वमग्निमुखश्चपलश्च-तद्यदि मया सह रक्त-पानं करोषि तत्तिष्ठ ।अभीष्टतर-रक्तमास्वादय । सोऽब्रवीत्-भगवत्येवं करिष्यामि । यावत्त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन्मम देव-गुरु-कृतः शपथः स्याद्यदि तदास्वादयामि ।एवं तयोः परस्परं वदतोः स राजा तच्-छयनमासाद्य प्रसुप्तः ।अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज्जाग्रतमपि तं मही-पतिमदशत् ।अथ वा साध्विदमुच्यते । स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

अथासौ महीपतिः सूच्य्-अग्र-विद्ध इव तच्-छयनं त्यक्त्वा तत्-क्षणादेवोत्थितः । अहो ज्ञायतामत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस्तत्र स्थितास्ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश्चापल्यात्खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्यपि वस्त्र-सन्ध्य्-अन्तर्-गता तैर्दृष्टा व्यापादिता च । अतोऽहं ब्रवीमि-न ह्यविज्ञात-शीलस्य इति ।

एवं ज्ञात्वा त्वयिष वध्यः । नो चेत्त्वां व्यापादयिष्यतीति । उक्तं च—

Showing 591 to 600 of 1051 verses