पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 601 to 610 of 1051 verses
Verse 282
त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः । स एव मृत्युमाप्नोति यथा राजा ककुद्-द्रुमः ॥
Metre: अनुष्टुप्

पिङ्गलक आह—-कथमेतत् ?

सोऽब्रवीत्- कथा १० चण्डरव-नाम-शृगाल-कथा

अस्ति कस्मिंश्चिद्वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित्क्षुधाविष्टो जिह्वा-लौल्यान्नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दंष्टृआग्रैर्भक्षितुमारब्धाः । सोऽपि तैर्भक्ष्यमाणः प्राण-भयात्प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डम्सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन्निष्क्रान्तस्तावन्नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास्तं शृगालमजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन्निज-रङ्गस्त्यज्यते । उक्तं च—

Verse 283
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च ।एको ग्रहस्तु मीनानां नीलीमद्यपयोर्यथा ॥
Metre: अनुष्टुप्

अथ तं हर-गल-गरल-तमाल-सम-प्रभमपूर्वं सत्त्वमवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयोऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात्पलायन-क्रियां कुर्वन्ति । कथयन्ति च-न ज्ञायतेऽस्य कीदृग्विचेष्टितं पौरुषं च । तद्दूरतरं गच्छामः । उक्तं च—

Verse 284
न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥
Metre: अनुष्टुप्

चण्डरवोऽपि भय-व्याकुलितान्विज्ञायेदमाह-भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन्न भेतव्यम् । अहं ब्रह्मणाद्य स्वयमेव सृष्ट्वाभिहितः-यच्छ्वापदानां कश्चिद्राजा नास्ति, तत्त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्-द्रुमाभिधः । ततो गत्वा क्षिति-तले तान्सर्वान्परिपालयेति । ततोऽहमत्रागतः । तन्मम च्छत्र-च्छायायां सर्वैरपि श्वापदैर्वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः ।

तच्छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन्प्रभो समादिशेति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस्ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः शृगालास्तैः सहालाप-मात्रमपि न करोति । शृगालाः सर्वेऽप्यधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान्व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सोऽपि प्रभु-धर्मेण सर्वेषां तान्प्रविभज्य प्रयच्छति ।

एवं गच्छति काले कदाचित्तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुरानन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुमारब्धवान् । अथ ते सिंहादयस्तं तार-स्वरमाकर्ण्य शृगालोऽयमिति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः ! वाहिता वयमनेन क्षुद्र-शृगालेन । तद्वध्यतामिति ।

Showing 601 to 610 of 1051 verses