त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः । स एव मृत्युमाप्नोति यथा राजा ककुद्-द्रुमः ॥
Metre: अनुष्टुप्
सोऽब्रवीत्- कथा १० चण्डरव-नाम-शृगाल-कथा
अस्ति कस्मिंश्चिद्वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित्क्षुधाविष्टो जिह्वा-लौल्यान्नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दंष्टृआग्रैर्भक्षितुमारब्धाः । सोऽपि तैर्भक्ष्यमाणः प्राण-भयात्प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डम्सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन्निष्क्रान्तस्तावन्नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास्तं शृगालमजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन्निज-रङ्गस्त्यज्यते । उक्तं च—
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च ।एको ग्रहस्तु मीनानां नीलीमद्यपयोर्यथा ॥
Metre: अनुष्टुप्
अथ तं हर-गल-गरल-तमाल-सम-प्रभमपूर्वं सत्त्वमवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयोऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात्पलायन-क्रियां कुर्वन्ति । कथयन्ति च-न ज्ञायतेऽस्य कीदृग्विचेष्टितं पौरुषं च । तद्दूरतरं गच्छामः । उक्तं च—
न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥
Metre: अनुष्टुप्
चण्डरवोऽपि भय-व्याकुलितान्विज्ञायेदमाह-भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन्न भेतव्यम् । अहं ब्रह्मणाद्य स्वयमेव सृष्ट्वाभिहितः-यच्छ्वापदानां कश्चिद्राजा नास्ति, तत्त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्-द्रुमाभिधः । ततो गत्वा क्षिति-तले तान्सर्वान्परिपालयेति । ततोऽहमत्रागतः । तन्मम च्छत्र-च्छायायां सर्वैरपि श्वापदैर्वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः ।
तच्छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन्प्रभो समादिशेति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस्ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः शृगालास्तैः सहालाप-मात्रमपि न करोति । शृगालाः सर्वेऽप्यधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान्व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सोऽपि प्रभु-धर्मेण सर्वेषां तान्प्रविभज्य प्रयच्छति ।
एवं गच्छति काले कदाचित्तेन समागतेन दूर-देशे शब्दायमानस्य शृगाल-वृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुरानन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुमारब्धवान् । अथ ते सिंहादयस्तं तार-स्वरमाकर्ण्य शृगालोऽयमिति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः ! वाहिता वयमनेन क्षुद्र-शृगालेन । तद्वध्यतामिति ।