तुल्यार्थं तुल्य-सामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्ध-राज्य-हरं भृत्यं यो न हन्यात्स हन्यते ॥
Metre: अनुष्टुप्
अपरं त्वयास्य सखित्वात्सर्वोऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात्सर्वोऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्प-भोजी । भवान्मांसादः । तव प्रकृतयश्च यत्तवावध्यव्यसाय-बाह्यं कुतस्तासां मांसाशनम् । यद्-रहितास्त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस्ते न कदाचिदाखेटके मतिर्भविष्यति । उक्तं च—
यादृशैः सेव्यते भृत्यैर्यादृशांश्चोपसेवते । कदाचिन्नात्र सन्देहस्तादृग्भवति पूरुषः ॥
Metre: अनुष्टुप्
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्त-कारतया तदेव नलिनी-पत्र-स्थितं राजते । स्वातौ सागर-शुक्ति-कुक्षि-पतितं तज्जायते मौक्तिकं प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते ॥
Metre: शार्दूलविक्रीडितम्
असतां सङ्ग-दोषेण सती याति मतिर्भ्रमम् । एक-रात्रि-प्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥
Metre: अनुष्टुप्
अत एव सन्तो नीच-सङ्गं वर्जयन्ति । उक्तं च—
न ह्यविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः । मत्-कुणस्य च दोषेण हता मन्द-विसर्पिणी ॥
Metre: अनुष्टुप्