पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 571 to 580 of 1051 verses
Verse 266
यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः । अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥
Metre: अनुष्टुप्

अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकमपि निकटे धारयति । अथ देव, यद्येवं चिन्तयसि महा-कायोऽयम् । अनेन रिपून्व्यापादयिष्यामि । तदस्मान्न सिध्यति, यतोऽयं शष्प-भोजी । देव-पादानां पुनः शत्रवो मांसाशिनः । तद्-रिपु-साधनमस्य साहाय्येन न भवति । तस्मादेनं दूषयित्वा हन्यतामिति ।

पिङ्गलक आह—

Verse 267
उक्तो भवति यः पूर्वं गुणवानिति संसदि । तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥
Metre: अनुष्टुप्

अन्यच्च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत्कथं स्वयमेव व्यापादयामि । सर्वथा सञ्जीवकोऽयं सुहृदस्माकम् । न तं प्रति कश्चिन्मन्युरिति । उक्तं च—

Verse 268
इतः स दैत्यः प्राप्त-श्रीर्नेत एवार्हति क्षयम् । विष-वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥
Metre: अनुष्टुप्

Verse 269
आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥
Metre: वसन्ततिलका

Verse 270
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥
Metre: अनुष्टुप्

तद्-द्रोह-बुद्धेरपि मयास्य न विरुद्धमाचरणीयम् ।

दमनक आह—स्वामिन् ! नैष राज-धर्मो यद्द्रोह-बुद्धिरपि क्षम्यते । उक्तं च—

Showing 571 to 580 of 1051 verses