यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः । अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥
Metre: अनुष्टुप्
अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकमपि निकटे धारयति । अथ देव, यद्येवं चिन्तयसि महा-कायोऽयम् । अनेन रिपून्व्यापादयिष्यामि । तदस्मान्न सिध्यति, यतोऽयं शष्प-भोजी । देव-पादानां पुनः शत्रवो मांसाशिनः । तद्-रिपु-साधनमस्य साहाय्येन न भवति । तस्मादेनं दूषयित्वा हन्यतामिति ।
उक्तो भवति यः पूर्वं गुणवानिति संसदि । तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥
Metre: अनुष्टुप्
अन्यच्च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत्कथं स्वयमेव व्यापादयामि । सर्वथा सञ्जीवकोऽयं सुहृदस्माकम् । न तं प्रति कश्चिन्मन्युरिति । उक्तं च—
इतः स दैत्यः प्राप्त-श्रीर्नेत एवार्हति क्षयम् । विष-वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥
Metre: अनुष्टुप्
आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥
Metre: वसन्ततिलका
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥
Metre: अनुष्टुप्
तद्-द्रोह-बुद्धेरपि मयास्य न विरुद्धमाचरणीयम् ।
दमनक आह—स्वामिन् ! नैष राज-धर्मो यद्द्रोह-बुद्धिरपि क्षम्यते । उक्तं च—