तथा च-आत्मनः शक्तिमुद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून्हन्ति स एकोऽपि क्षत्रियान्भार्गवो यथा ॥
शशक आह-अस्त्येतत् । तथापि बलवान्स मया दृष्टः । तन्न युज्यते स्वामिनस्तस्य तस्य सामर्थ्यमविदित्वा गन्तुम् ।उक्तं च-अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥
भासुरक आह—भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थमपि ।
अथ शशक आह—यद्येवं तर्ह्यागच्छतु स्वामी । एवमुक्त्वाग्रे व्यवस्थितः ।
ततश्च तेनागच्छता यः कूपो दृष्टोऽभूत्तमेव कूपमासाद्य भासुरकमाह-स्वामिन्कस्ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ यथा दर्शयामीति । भासुरक आह—दर्शय मे दुर्गम् । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद्द्वि-गुणतरो नादः समुत्थितः ।
अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्ट-मनाः सर्व-मृगानानन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म । अतोऽहं ब्रवीमि-यस्य बुद्धिर्बलं तस्य इति ।
तद्यदि भवान्कथयति तत्तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि ।
करटक आह—भद्र ! यद्येवं तर्हि गच्छ । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयताम् ।
अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तमाह-भद्र, किं चिराद्दृष्टः ?
दमनक आह—न कञ्चिद्देव-पादानामस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशमवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तं च—