हिरण्य-धान्य-रत्नानि यानानि विविधानि च । तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्महीपतेः ॥
Metre: अनुष्टुप्
लोकानुग्रह-कर्तारः प्रवर्धन्ते नरेश्वराः । लोकानां सङ्क्षयाच्चैव क्षयं यान्ति न संशयः ॥
Metre: अनुष्टुप्
अथ तेषां तद्-वचनमाकर्ण्य भासुरक आह—अहो सत्यमभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः श्वापदः समागमिष्यति । तन्नूनं सर्वानपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस्तत्रैव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात्तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते ।
अथ कदाचिज्जाति-क्रमाच्छशकस्यावसरः समायातः । स समस्त-मृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन्वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद्गच्छति तावन्-मार्गे गच्छता कूपः सन्दृष्टः । यावत्कूपोपरि पाति तावत्कूप-मध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्-यद्भाव्य उपायोऽस्ति । अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन्कूपे पातयिष्यामि ।
अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षाम-कण्ठः कोपाविष्टः सृक्कणी परिलेलिहद्व्यचिन्तयत्-अहो ! प्रतार्-आहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्नाह-रे शशकाधम एकस्तावत्त्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण । तदस्मादपराधात्त्वां निपात्य प्रातः सकलान्यपि मृग-कुलान्युच्छेदयिष्यामि ।
अथ शशकः स-विनयं प्रोवाच-स्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच्छ्य्रूतां कारणम् ।
सिंह आह—सत्वरं निवेदय यावन्मम दंष्ट्रान्तर्गतो न भवान्भविष्यति इति ।
शशक आह—स्वामिन्, समस्त-मृगैरद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्च-शशकैः समं प्रेषितः । ततश्चाहमागच्छेन्नन्तराले महता केनचिदपरेण सिंहेन विवरान्निर्गत्याभिहितः-अभीष्ट-देवतां स्मरत ।
ततो मयाभिहितम्-वयं स्वामिनोन्भासुरक-सिंहस्य सकाशमाहारार्थं समय-धर्मेण गच्छामः ।
ततस्तेनाभिहितम्-यद्येवं तर्हि मदीयमेतद्-वनम् । मया सह समय-धर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चोर-रूपी स भासुरकः । अथ यदि सोऽत्र राजा । विश्वास-स्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्छ । येन यः कश्चिदावयोर्मध्यात्पराक्रमेण राजा भविष्यति स सर्वानेतान्भक्षयिष्यति इति ।