पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 511 to 520 of 1051 verses
अतोऽहं ब्रवीमि-भक्षयित्वा बहून्मत्स्यानिति ।

वायस आह—भद्र ! तत्कथय कथं स दुष्ट-सर्पो वधमुपैष्यति ।

शृगाल आह—गच्छतु भवान्कञ्चिन्नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनक-सूत्रं हारं वा गृहीत्वा तत्-कोटरे प्रक्षिप, येन सर्पस्तद्-ग्रहणेन वध्यते ।

तत्-क्षणात्काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चित्सरः प्राप्य यावत्पश्यति, तावत्तन्-मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्नं न्यस्त-कनक-सूत्रं मुक्त-मुक्ताहार-वस्त्राभरणं जल-क्रीडां कुरुते । अथ सा वायसी कनक-सूत्रमेकमादाय स्व-गृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्ष-वराश्च तन्-नीयमानमुपलक्ष्य गृहीत-लगुडाः सत्वरमनुययुः । काक्यपि सर्प-कोटरे तत्-कनक-सूत्रं प्रक्षिप्य सुदूरमवस्थिता ।

अथ यावद्राज-पुरुषास्तं वृक्षमारुह्य तत्-कोटरमवलोकयन्ति, तावत्कृष्ण-सर्पः प्रसारित-भोगस्तिष्ठति । ततस्तं लगुड-प्रहारेण हत्वा कनक-सूत्रमादाय यथाभिलषितं स्थानं गताः । वायस-दम्पती अपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमि-उपायेन हि यत्कुर्यातिति ।

तन्न किंचिदिह बुद्धिमतामसाध्यमस्ति । उक्तं च—

Verse 237
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥
Metre: अनुष्टुप्

करटक आह—कथमेतत् ?

स आह—

कथा ८ भासुरकाख्य-सिंह-कथा

Showing 511 to 520 of 1051 verses