अतोऽहं ब्रवीमि-भक्षयित्वा बहून्मत्स्यानिति ।
वायस आह—भद्र ! तत्कथय कथं स दुष्ट-सर्पो वधमुपैष्यति ।
शृगाल आह—गच्छतु भवान्कञ्चिन्नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनक-सूत्रं हारं वा गृहीत्वा तत्-कोटरे प्रक्षिप, येन सर्पस्तद्-ग्रहणेन वध्यते ।
तत्-क्षणात्काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चित्सरः प्राप्य यावत्पश्यति, तावत्तन्-मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्नं न्यस्त-कनक-सूत्रं मुक्त-मुक्ताहार-वस्त्राभरणं जल-क्रीडां कुरुते । अथ सा वायसी कनक-सूत्रमेकमादाय स्व-गृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्ष-वराश्च तन्-नीयमानमुपलक्ष्य गृहीत-लगुडाः सत्वरमनुययुः । काक्यपि सर्प-कोटरे तत्-कनक-सूत्रं प्रक्षिप्य सुदूरमवस्थिता ।
अथ यावद्राज-पुरुषास्तं वृक्षमारुह्य तत्-कोटरमवलोकयन्ति, तावत्कृष्ण-सर्पः प्रसारित-भोगस्तिष्ठति । ततस्तं लगुड-प्रहारेण हत्वा कनक-सूत्रमादाय यथाभिलषितं स्थानं गताः । वायस-दम्पती अपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमि-उपायेन हि यत्कुर्यातिति ।
तन्न किंचिदिह बुद्धिमतामसाध्यमस्ति । उक्तं च—
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥
Metre: अनुष्टुप्
कथा ८ भासुरकाख्य-सिंह-कथा