पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 521 to 530 of 1051 verses
कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान्नित्यमेवानेकान्मृग-शशकादीन्व्यापादयन्नोपरराम । अथान्येद्युस्तद्-वनजाः सर्वे सारङ्ग-वराह-महिष-शशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः-स्वामिन् ! किमनेन सकल-मृग-वधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति तत्क्रियतामस्माभिः सह समय-धर्मः । अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत्प्राण-यात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राज-धर्मोऽनुष्ठीयताम् । उक्तं च—

Verse 238
शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथा-बलम् । रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥
Metre: अनुष्टुप्

Verse 239
विधिना मन्त्र-युक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥
Metre: अनुष्टुप्

Verse 240
प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम् । पीडनं धर्म-नाशाय पापायायशसे स्थितम् ॥
Metre: अनुष्टुप्

Verse 241
गोपालेन प्रजाधेनोर्वित्त-दुग्धं शनैः शनैः । पालनात्पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥
Metre: अनुष्टुप्

Verse 242
अजामिव प्रजां मोहाद्यो हन्यात्पृथिवी-पतिम् । तस्यैका जायते तृप्तिर्न द्वितीया कथञ्चन ॥
Metre: अनुष्टुप्

Verse 243
फलार्थी नृपतिर्लोकान्पालयेद्यत्नमास्थितः । दान-मानादि-तोयेन मालाकारोऽङ्कुरानिव ॥
Metre: अनुष्टुप्

Verse 244
नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरन्नपि । आन्तर-स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥
Metre: अनुष्टुप्

Verse 245
यथा गौर्दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव लता पुष्प-फल-प्रदा ॥
Metre: अनुष्टुप्

Verse 246
यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फल-प्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥
Metre: अनुष्टुप्

Showing 521 to 530 of 1051 verses