कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान्नित्यमेवानेकान्मृग-शशकादीन्व्यापादयन्नोपरराम । अथान्येद्युस्तद्-वनजाः सर्वे सारङ्ग-वराह-महिष-शशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः-स्वामिन् ! किमनेन सकल-मृग-वधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति तत्क्रियतामस्माभिः सह समय-धर्मः । अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत्प्राण-यात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राज-धर्मोऽनुष्ठीयताम् । उक्तं च—
शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथा-बलम् । रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥
Metre: अनुष्टुप्
विधिना मन्त्र-युक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥
Metre: अनुष्टुप्
प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम् । पीडनं धर्म-नाशाय पापायायशसे स्थितम् ॥
Metre: अनुष्टुप्
गोपालेन प्रजाधेनोर्वित्त-दुग्धं शनैः शनैः । पालनात्पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥
Metre: अनुष्टुप्
अजामिव प्रजां मोहाद्यो हन्यात्पृथिवी-पतिम् । तस्यैका जायते तृप्तिर्न द्वितीया कथञ्चन ॥
Metre: अनुष्टुप्
फलार्थी नृपतिर्लोकान्पालयेद्यत्नमास्थितः । दान-मानादि-तोयेन मालाकारोऽङ्कुरानिव ॥
Metre: अनुष्टुप्
नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरन्नपि । आन्तर-स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥
Metre: अनुष्टुप्
यथा गौर्दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव लता पुष्प-फल-प्रदा ॥
Metre: अनुष्टुप्
यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फल-प्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥
Metre: अनुष्टुप्