ततोऽहं तेनादिष्टः स्वामि-सकाशमभ्यागतः । एतद्वेला व्यतिक्रम-कारणम् । तदत्र स्वामी प्रमाणम् ।
तच्छ्रुत्वा भासुरक आह—भद्र, यद्येवं तत्सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च—
भूमिर्मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् । नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ॥
Metre: अनुष्टुप्
यत्र न स्यात्फलं भूरि यत्र चस्यात्पराभवः । न तत्र मतिमान्युद्धं समुत्पाद्य समाचरेत् ॥
Metre: अनुष्टुप्
शशाक आह—स्वामिन् ! सत्यमिदम् । स्व-भूमि-हेतोः परिभवाच्च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान्निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च—
न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत्कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥
Metre: अनुष्टुप्
तच्छ्रुत्वा भासुरक आह । भद्र दुर्गस्थमपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च—
जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥
Metre: अनुष्टुप्
तथा च-उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥
Metre: आर्या (१२, १८, १२, १५)
अपि च-उपेक्षितः क्षीण-बलोऽपि शत्रुः प्रमाद-दोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यतां व्याधिरिव प्रयाति ॥