जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः ॥
Metre: अनुष्टुप्
नाश्नाति स्वच्छयोत्सुक्याद्विनिद्रो न प्रबुध्यते । न निःशङ्कं वचो ब्रूते सेवकोऽप्यत्र जीवति ॥
Metre: अनुष्टुप्
सेवा श्व-वृत्तिराख्याता यैस्तैर्मिथ्या प्रजल्पितम् । स्वच्छन्दं चरति स्वात्र सेवकः पर-शासनात् ॥
Metre: अनुष्टुप्
भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम् । सेवकस्य यतेर्यद्वद्विशेषः पाप-धर्मजः ॥
Metre: अनुष्टुप्
शीतातपादि-कष्टानि सहते यानि सेवकः । धनाय तानि चाल्पानि यदि धर्मान्न मुच्यते ॥
Metre: अनुष्टुप्
मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा । मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥
Metre: अनुष्टुप्
सञ्जीवक आह—अथ भवान्किं वक्तु-मनाः ?
सोऽब्रवीत्-मित्र, सचिवानां मन्त्र-भेदं न युज्यते । उक्तं च—
यो मन्त्रं स्वामिनो भिद्यात्साचिव्ये सन्-नियोजितः । स हत्वा नृप-कार्यं तत्स्वयं च नरकं व्रजेत् ॥
Metre: अनुष्टुप्
येन यस्य कृतो भेदः सचिवेन महीपतेः । तेनाशस्त्र-वधस्तस्य कृत इत्याह नारदः ॥
Metre: अनुष्टुप्