पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 631 to 640 of 1051 verses
तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस्त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश्च । उक्तं च—

Verse 297
विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन । तस्य हत्या तद्-उत्था सा प्राहेदं वचनं मनुः ॥
Metre: अनुष्टुप्

तत्तवोपरि पिङ्गलकोऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश्चतुष्कर्णतया-यत्प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात्तृप्तिं नेष्यामि ।

ततः स मयोक्तः-स्वामिन् ! न युक्तमिदं यन्मित्र-द्रोहेण जीवनं क्रियते । उक्तं च—

Verse 298
अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति । तद्-अर्थेन विचीर्णेन न कथञ्चित्सुहृद्-द्रुहः ॥
Metre: अनुष्टुप्

ततस्तेनाहं समर्षेणोक्तः-भो दुष्ट-बुद्धे, सञ्जीवकस्तावच्छष्प-भोजी, वयं मांसाशिनः । तदस्माकं स्वाभाविकं वैरमिति कथं रिपुरुपेक्ष्यते ? तस्मात्सामादिभिरुपायैर्हन्यते । न च हते तस्मिन्दोषः स्यात् । उक्तं च—

Verse 299
दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता । अन्योपायैरशक्यो यो हते दोषो न विद्यते ॥
Metre: अनुष्टुप्

Verse 300
कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः ॥
Metre: अनुष्टुप्

तदहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशमिहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस्तव निवेदितः । अथ यत्ते प्रतिभाति तत्कुरुष्व इति । अथ सञ्जीवकस्तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहमुपगतः । अथ चेतनां लब्ध्वा स-वैराग्यमिदमाह-भो साध्विदमुच्यते—

Verse 301
दुर्जन-गम्या नार्यः प्रायेणास्नेहवान्भवति राजा । कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च ॥
Metre: आर्या (१२, १८, १२, १५)

Showing 631 to 640 of 1051 verses