तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस्त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश्च । उक्तं च—
विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन । तस्य हत्या तद्-उत्था सा प्राहेदं वचनं मनुः ॥
Metre: अनुष्टुप्
तत्तवोपरि पिङ्गलकोऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश्चतुष्कर्णतया-यत्प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात्तृप्तिं नेष्यामि ।
ततः स मयोक्तः-स्वामिन् ! न युक्तमिदं यन्मित्र-द्रोहेण जीवनं क्रियते । उक्तं च—
अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति । तद्-अर्थेन विचीर्णेन न कथञ्चित्सुहृद्-द्रुहः ॥
Metre: अनुष्टुप्
ततस्तेनाहं समर्षेणोक्तः-भो दुष्ट-बुद्धे, सञ्जीवकस्तावच्छष्प-भोजी, वयं मांसाशिनः । तदस्माकं स्वाभाविकं वैरमिति कथं रिपुरुपेक्ष्यते ? तस्मात्सामादिभिरुपायैर्हन्यते । न च हते तस्मिन्दोषः स्यात् । उक्तं च—
दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता । अन्योपायैरशक्यो यो हते दोषो न विद्यते ॥
Metre: अनुष्टुप्
कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः ॥
Metre: अनुष्टुप्
तदहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशमिहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस्तव निवेदितः । अथ यत्ते प्रतिभाति तत्कुरुष्व इति । अथ सञ्जीवकस्तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहमुपगतः । अथ चेतनां लब्ध्वा स-वैराग्यमिदमाह-भो साध्विदमुच्यते—
दुर्जन-गम्या नार्यः प्रायेणास्नेहवान्भवति राजा । कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च ॥
Metre: आर्या (१२, १८, १२, १५)