रे रे चातक सावधान-मनसा मित्र क्षणं श्रूयतामम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः । केचिद्वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥
Metre: शार्दूलविक्रीडितम्
अकरुणत्वमकारण-विग्रहः परधने परयोषिति च स्पृहा । सुजन-बन्धुजनेष्वसहिष्णुता प्रकृति-सिद्धमिदं हि दुरात्मनाम् ॥
Metre: द्रुतविलम्बितम्
दुर्जनः परिहर्तव्यो विद्ययाऽलकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥
Metre: अनुष्टुप्
जाड्यं ह्रीमति गण्यते व्रत-रुचौ दम्भः शुचौ कैतवं शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥
Metre: शार्दूलविक्रीडितम्
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्-विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥
Metre: शार्दूलविक्रीडितम्
शशी दिवस-धूसरो गलित-यौवना कामिनी सरो विगत-वारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धन-परायणः सतत-दुर्गतः सज्जनो नृपाङ्गण-गतः खलो मनसि सप्त शल्यानि मे ॥
Metre: पृथ्वी
न कश्चिच्चण्ड-कोपानामात्मीयो नाम भूभुजाम् । होतारमपि जुह्वानं स्पृष्टो वहति पावकः ॥
Metre: अनुष्टुप्
मौनोमूकः प्रवचन-पटुर्बाटुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः । क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परम-गहनो योगिनामप्यगम्यः ॥
Metre: मन्दाक्रान्ता
उद्भासिताखिल-खलस्य विशृङ्खलस्य प्राग्-जात-विस्तृत-निजाधम-कर्म-वृत्तेः । दैवादवाप्त-विभवस्य गुण-द्विषोऽस्य नीचस्य गोचर-गतैः सुखमाप्यते ॥
Metre: वसन्ततिलका
आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्-जनानाम् ॥
Metre: उपजातिः