शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Enable Parallel


Showing 71 to 80 of 324 verses
Verse 71
भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्दूरावलम्बिनो घनाः ।अनुद्धताः सत्-पुरुषाः समृद्धिभिः स्वभाव एष परोपकारिणाम् ॥
Metre: उपेन्द्रवज्रा

Verse 72
श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुण-पराणां परोपकारैर्न तु चन्दनेन ॥
Metre: उपजातिः

Verse 73
पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान्प्रकटीकरोति ।आपद्-गतं च न जहाति ददाति काले सन्-मित्र-लक्षणमिदं प्रवदन्ति सन्तः ॥
Metre: वसन्ततिलका

Verse 74
पद्माकरं दिनकरो विकचीकरोति चम्द्र्प्वोलासयति कैरव-चक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिते विहिताभियोगाः ॥
Metre: वसन्ततिलका

Verse 75
एके सत्-पुरुषाः परार्थ-घटकाः स्वार्थं परित्यजन्ति ये सामान्यास्तु परार्थमुद्यम-भृतः स्वार्थाविरोधेन ये । तेऽमी मानुष-राक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥
Metre: शार्दूलविक्रीडितम्

Verse 76
क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥
Metre: शार्दूलविक्रीडितम्

Verse 77
इतः स्वपिति केशवः कुलमितस्तदीय-द्विषामितश्च शरणार्थिनां शिखरिणां गणाः शेरते ।इतोऽपि बडवानलः सह समस्त-संवर्तकैऋ अहो विततमूर्जितं भर-सहं सिन्धोर्वपुः ॥
Metre: पृथ्वी

Verse 78
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः सत्यं ब्रूह्यनुयाहि साधु-पदवीं सेवस्व विद्वज्-जनम् । मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 79
मनसि वचसि काये पुण्य-पीयूष-पूर्णास्त्रिभुवनमुपकार-श्रेणिभिः प्रीणयन्तः । पर-गुण-परमाणून्पर्वतीकृत्य नित्यं निज-हृदि विकसन्तः सन्त सन्तः कियन्तः ॥
Metre: मालिनी

Verse 80
किं तेन हेम-गिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव । मन्यामहे मलयमेव यद्-आश्रयेण कङ्कोल-निम्ब-कटुजा अपि चन्दनाः स्युः ॥
Metre: वसन्ततिलका

Showing 71 to 80 of 324 verses