रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीम-विषेण भीतिम् । सुधां विना न परयुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥
Metre: उपजातिः
क्वचित्पृथ्वीशय्यः क्वचिदपि च परङ्क-शयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदन-रुचिः । क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥
Metre: शिखरिणी
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्-संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता सर्वेषामपि सर्व-कारणमिदं शीलं परं भूषणम् ॥
Metre: शार्दूलविक्रीडितम्
निन्दन्तु नीति-निपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् ।अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥
Metre: वसन्ततिलका
भग्नाशस्य करण्ड-पिण्डित-तनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्-पिशितेन सत्वरमसौ तेनैव यातः यथा लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥
Metre: शार्दूलविक्रीडितम्
आलस्यं हि मनुष्याणां शरीरस्थो महान्रिपुः । नास्त्युद्यम-समो बन्धुः कुर्वाणो नावसीदति ॥
Metre: अनुष्टुप्
छिन्नोऽपि रोहति तर्क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥
नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः किल हरेरैरावतो वारणः ।इत्यैश्वर्य-बलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥
Metre: शार्दूलविक्रीडितम्
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥
Metre: अनुष्टुप्
खल्वातो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके वाञ्छन्देशमनातपं विधि-वशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्य-रहितस्तत्रैव यान्त्यापदः ॥
Metre: शार्दूलविक्रीडितम्