शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Enable Parallel


Showing 81 to 90 of 324 verses
Verse 81
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीम-विषेण भीतिम् । सुधां विना न परयुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥
Metre: उपजातिः

Verse 82
क्वचित्पृथ्वीशय्यः क्वचिदपि च परङ्क-शयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदन-रुचिः । क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥
Metre: शिखरिणी

Verse 83
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्-संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता सर्वेषामपि सर्व-कारणमिदं शीलं परं भूषणम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 84
निन्दन्तु नीति-निपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् ।अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥
Metre: वसन्ततिलका

Verse 85
भग्नाशस्य करण्ड-पिण्डित-तनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्-पिशितेन सत्वरमसौ तेनैव यातः यथा लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 86
आलस्यं हि मनुष्याणां शरीरस्थो महान्रिपुः । नास्त्युद्यम-समो बन्धुः कुर्वाणो नावसीदति ॥
Metre: अनुष्टुप्

Verse 87
छिन्नोऽपि रोहति तर्क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥

Verse 88
नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः किल हरेरैरावतो वारणः ।इत्यैश्वर्य-बलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 89
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥
Metre: अनुष्टुप्

Verse 90
खल्वातो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके वाञ्छन्देशमनातपं विधि-वशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्य-रहितस्तत्रैव यान्त्यापदः ॥
Metre: शार्दूलविक्रीडितम्

Showing 81 to 90 of 324 verses