शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Enable Parallel


Showing 101 to 110 of 324 verses
Verse 101
मज्जत्वम्भसि यातु मेरु-शिखरं शत्रुं जयत्वाहवे वाणिज्यं कृषि-सेवने च सकला विद्याः कलाः शिक्षताम् ।आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नाभाव्यं भवतीह कर्म-वशतो भाव्यस्य नाशः कुतः ॥
Metre: शार्दूलविक्रीडितम्

Verse 102
भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः स्वजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधि-रत्न-पूर्णा यस्यास्ति पूर्व-सुकृतं विपुलं नरस्य ॥
Metre: वसन्ततिलका

Verse 103
को लाभो गुणिसङ्गमः किमसुखं प्राज्ञेतरैः सङ्गतिः का हानिः समय-च्युतिर्निपुणता का धर्म-तत्त्वे रतिः । कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं विद्या किं सुखमप्रवास-गमनं राज्यं किमाज्ञा-फलम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 104
अप्रिय-वचन-दरिद्रैः प्रिय-वचन-धनाढ्यैः स्व-दार-परितुष्टैः । पर-परिवाद-निवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा ॥

Verse 105
कदर्थितस्यापि हि धैर्य-वृत्तेर्न शक्यते धैर्य-गुणः प्रमार्ष्टुम् ।अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ॥
Metre: उपजातिः

Verse 106
कान्ताकटाक्ष-विशिखा न लुनन्ति यस्य चित्तं न निर्दहति किप-कृशानुतापः । कर्षन्ति भूरि-विषयाश्च न लोभ-पाशैर्लोक-त्रयं जयति कृत्स्नमिदं स धीरः ॥
Metre: वसन्ततिलका

Verse 107
एकेनापि हि शूरेण पादाक्रान्तं महीतलम् । क्रियते भास्करेणैव स्फार-स्फुरित-तेजसा ॥
Metre: अनुष्टुप्

Verse 108
वह्निस्तस्य जलायते जल-निधिः कुल्यायते तत्-क्षणान्मेरुः स्वल्प-शिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्य-गुणायते विष-रसः पीयूष-वर्षायते यस्याङ्गेऽखिल-लोक-वल्लभतमं शीलं समुन्मीलति ॥
Metre: शार्दूलविक्रीडितम्

Verse 109
लज्जा-गुणौघ-जननीं जननीमिव स्वामत्यन्त-शुद्ध-हृदयामनुवर्तमानाम् । तेजस्विनः सुखमसूनपि सन्त्यजनति सत्य-व्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ॥
Metre: वसन्ततिलका

Verse 1
शम्भु-स्वयम्भु-हरयो हरिणेक्षणानां येनाक्रियन्त सततं गृह-कुम्भ-दासाः । वाचामगोचर-चरित्र-विचित्रिताय तस्मै नमो भगवते मकर-ध्वजाय ॥
Metre: वसन्ततिलका

Showing 101 to 110 of 324 verses