लाङ्गूल-चालनमधश्-चरणावपातं भूमौ निपत्य वदनोदर-दर्शनं च । श्वा पिण्डदस्य कुरुते गज-पुङ्गवस्तु धीरं विलोकयति चाटु-शतैश्च भुङ्क्ते ॥
Metre: वसन्ततिलका
परिवर्तिनि संसारे मृतः को वा न जायते । स जातो येन जातेन याति वंशः समुन्नतिम् ॥
Metre: अनुष्टुप्
कुसुम-स्तवकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्व-लोकस्य शीर्यते वन एव वा ॥
Metre: अनुष्टुप्
सन्त्यन्येऽपि बृहस्पति-प्रभृतयः सम्भाविताः पञ्चषास्तान्प्रत्येष विशेष-विक्रम-रुची राहुर्न वैरायते । द्वावेव ग्रसते दिवाकर-निशा-प्राणेश्वरौ भास्करौ भ्रातः पर्वणि पश्य दानव-पतिः शीर्षावशेषाकृतिः ॥
Metre: शार्दूलविक्रीडितम्
वहति भुवन-श्रेणिं शेषः फणाफलक-स्थितां कमठ-पतिना मध्ये-पृष्ठं सदा स च धार्यते । तमपि कुरुते क्रोडाधीनं पयोधिरनादरादहह महतां निःसीमानश्चरित्र-विभूतयः ॥
Metre: हरिणी
वरं पक्ष-च्छेदः समदमघवन्-मुक्त-कुलिशप्रहारैरुद्गच्छद्-बहुल-दहनोद्गार-गुरुभिः । तुषाराद्रेः सूनोरहह पितरि क्लेश-विवशे न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥
Metre: शिखरिणी
सिंहः शिशुरपि निपतति मद-मलिन-कपोल-भित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥
Metre: आर्या
जातिर्यातु रसातलं गुण-गणैस्तत्राप्यधो गम्यतां शीलं शैल-तटात्पतत्वभिजनः सन्दह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणस्तृण-लव-प्रायाः समस्ता इमे ॥
Metre: शार्दूलविक्रीडितम्
धनमर्जय काकुत्स्थ धन-मूलमिदं जगत् ।अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥
Metre: अनुष्टुप्
तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव ।अर्थोष्मणा विरहितः पुरुषः क्षणेन सोऽप्यन्य एव भवतीति विचित्रमेतत् ॥
Metre: वसन्ततिलका