शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Enable Parallel


Showing 41 to 50 of 324 verses
Verse 41
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥
Metre: उपजातिः

Verse 42
दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनात्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्मैत्री चाप्रणयात्समृद्धिरनयात्त्याग-प्रमादाद्धनम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 43
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
Metre: आर्या

Verse 44
मणिः शाणोल्लीढः समर-विजयी हेति-दलितो मद-क्षीणो नागः शरदि सरितः श्यान-पुलिनाः । कला-शेषश्चन्द्रः सुरत-मृदिता बाल-वनिता तन्-निम्ना शोभन्ते गलित-विभवाश्चार्थिषु नराः ॥
Metre: शिखरिणी

Verse 45
परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्सम्पूर्णः कलयति धरित्रीं तृण-समाम् ।अतश्चानैकान्त्याद्गुरु-लघुतयाऽर्थेषु धनिनामवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥
Metre: शिखरिणी

Verse 46
राजन्दुधुक्षसि यदि क्षिति-धेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण । तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नाना-फलैः फलति कल्पलतेव भूमिः ॥
Metre: वसन्ततिलका

Verse 47
सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्य-व्यया प्रचुर-नित्य-धनागमा च वाराङ्गनेव नृप-नीतिरनेक-रूपा ॥
Metre: वसन्ततिलका

Verse 48
आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्र-संरक्षणं च । येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥
Metre: शालिनी

Verse 49
यद्धात्रा निज-भाल-पट्ट-लिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 50
त्वमेव चातकाधारोऽ सीति केषां न गोचरः । किमम्भोद-वरास्माकं कार्पण्योक्तं प्रतीक्षसे ॥
Metre: अनुष्टुप्

Showing 41 to 50 of 324 verses