मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Enable Parallel


Showing 31 to 40 of 111 verses
Verse 31
दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: यत्रोज्जयिन्यां कामिनीनां सिप्रासरिदनिलः सुरतग्लानिं मोहनखेदं हरत्यपास्यति । कीदृशः । सारसानां लक्ष्मणानां मदेन मधुरं स्फुटं च कूजितं दी|कुर्वन्प्रमारयन् । तथा प्रभातेषु स्फुटितानि विकसितानि यानि कमलानि तेषामामोदः सौरभं तस्य मैत्र्या संपर्केण कषायः कषायरसयुक्तः । भावित इत्यर्थः । अङ्गानुकूलो गात्रसुखकारी । शीतलसुरभित्वात् । क इव हरतीत्याह । प्रार्थनया चाटुकारः प्रियकृत्प्रेयान्यथा कामिन्या अङ्गग्लानिमपहरति । सिप्राख्योज्जयिन्यां नदी ॥

Verse 32
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूमैर्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्तोपहारः । हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अस्या उज्जयिन्याः सौधेष्वध्वखिन्नानन्तरात्मा निशामतिवाह्य चण्डेश्वरम्य शंभोर्धामायतनं याया गच्छेः । कीदृशः । जालोद्गीर्णैर्गवाक्षविवरनिर्गतैरङ्गनामूर्धजोपस्कारधूमैरुपचितवपुः पीवरतनुः । धूमप्रायत्वादभ्राणाम् । तथा गृहमयूरैः सुहृत्स्नेहाद्दत्तो वितीर्णो नृत्तमेवोपहारो बलिर्यस्य । ते हि त्वामालोक्य सुहृत्स्नेहान्नृत्यन्ति । कीदृशेषु हर्म्येषु । कुसुमैरूपकारपुष्पैः सुगन्धिषु । तथा ललितानां सविलासानां वनितानां पादानामलक्तकेनाङ्कितेषु चिह्नितेषु । त्वं कीदृशः । गणैः प्रीत्यालोक्यमानः । कुतः । भर्तुः शम्भोः कण्ठच्छविर्गलनिभकान्तिरित्यतो हेतोः । कीदृशं धाम । पुण्यं पवित्रम् । तथा गन्धवत्याख्याया नद्या मरुद्भिर्वातैर्धूतोद्यानमुल्लसितोपवनम् । कीदृशैः । कुवलयरजोगन्धिभिरुत्पलरेणुसौरभं विद्यते येषां तैः । तथा तोयक्रीडायां जलकेलौ निरताः सक्ता या युवतयस्तासां स्नानेन तिक्तैः कटुकैः । अङ्गरागसंक्रमणात् ॥

Verse 33
भर्तुः कण्ठच्छविरिति गणैः सादरं दृश्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्यास्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अस्या उज्जयिन्याः सौधेष्वध्वखिन्नानन्तरात्मा निशामतिवाह्य चण्डेश्वरम्य शंभोर्धामायतनं याया गच्छेः । कीदृशः । जालोद्गीर्णैर्गवाक्षविवरनिर्गतैरङ्गनामूर्धजोपस्कारधूमैरुपचितवपुः पीवरतनुः । धूमप्रायत्वादभ्राणाम् । तथा गृहमयूरैः सुहृत्स्नेहाद्दत्तो वितीर्णो नृत्तमेवोपहारो बलिर्यस्य । ते हि त्वामालोक्य सुहृत्स्नेहान्नृत्यन्ति । कीदृशेषु हर्म्येषु । कुसुमैरूपकारपुष्पैः सुगन्धिषु । तथा ललितानां सविलासानां वनितानां पादानामलक्तकेनाङ्कितेषु चिह्नितेषु । त्वं कीदृशः । गणैः प्रीत्यालोक्यमानः । कुतः । भर्तुः शम्भोः कण्ठच्छविर्गलनिभकान्तिरित्यतो हेतोः । कीदृशं धाम । पुण्यं पवित्रम् । तथा गन्धवत्याख्याया नद्या मरुद्भिर्वातैर्धूतोद्यानमुल्लसितोपवनम् । कीदृशैः । कुवलयरजोगन्धिभिरुत्पलरेणुसौरभं विद्यते येषां तैः । तथा तोयक्रीडायां जलकेलौ निरताः सक्ता या युवतयस्तासां स्नानेन तिक्तैः कटुकैः । अङ्गरागसंक्रमणात् ॥

Verse 34
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानुः । कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे जनधरान्यस्मिन्नपि कालेऽवसरे महाकालाभिधानं भगवन्तमासाद्य तावत्त्वयासितव्यं यावदर्कश्चक्षुर्गोचरतां चक्षुर्दृश्यत्वमुपैति । प्रातःसंध्यासमयपर्यन्तमित्यर्थः । किमर्थमित्याह । शूलिनो महाकालस्य संध्याबल्यर्थं पटहतां तूर्यत्वं श्लाघनीयां विदधत्त्वमामन्द्राणां सर्वमधुराणां गर्जितानां परिपूर्णं फलं प्राप्स्यसि । देवानां हि बलिकाले ढक्कापटहादिवाद्यैर्भाव्यम् । तत्र तु भवद्ध्वनितान्येव पटहीभविष्यन्तीति तत्साफल्यम् । स्थातव्यं त इति कृत्यानां कर्तरि वा ॥

Verse 35
पादन्यासक्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तत्र महाकालधाम्नि वेश्या भगवद्गणिकास्त्वत्तो भवत्सकाशान्नखपदसुखकरान्वर्षाग्रबिन्दून्प्रथमजलकणानासाद्य प्रीतिवशात्त्वयि भ्रमरपालीपृथुलान्कटाक्षानाक्षेप्स्यन्ति । कीदृश्यस्ताः । पादन्यासेन क्वणितरशना रणन्मेखलाः । तथा विलासवलितैर्बालव्यजनैः खिद्यमानकरा इति सौकुमार्योक्तिः । ता हि देवं वीजयन्त्यः सेवन्ते । कोदृशैस्तैः । रत्नच्छायया खचिताः प्रकटीकृता वलय उदरलेखा यैः । तासां हि वासोयुगाच्छादितानां चामरमणिभासा मध्यवलयः प्रकटीभवन्ति ॥

Verse 36
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: पश्चादनन्तरं तत्र पशुपतेः शंभोर्नृत्तारम्भ आर्द्रगजाजिनेच्छां रुधिरसरसगजचर्माभिलाषं हर नाशय । तव तन्निभत्वात् । तथा हि कीदृशस्त्वम् । उच्चैरुद्गतं भुजतरुवनं दोर्द्रुमषण्डं मण्डलेन तिर्यगभिलीनः संश्रितः । तथाभिनवजपापुष्पवल्लोहितं सांध्यं तेजो बिभ्रत् । एवं च नवगजाजिनकाङ्क्षाहरणम् । भवान्या गोर्या दृष्टभक्तिरालोकितेत्थं विधमेवनः । कथम् । विद्युदुन्मेषाभावाच्छान्तोद्वेगानि निवृत्तखेदान्यत एव स्तिमितानि नयनानि यत्र दर्शने ॥

Verse 37
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तत्रोज्जयिन्यामभिसारिकाणां सौदामिन्या तडिता राजमार्गं दर्शय प्रकाशय। यतो नक्तं रात्रौ प्रियतमवसतिं व्रजन्तीनाम् । अत एवातिघनत्वात्सूच्या भेद्यस्तमोभी रद्धालोकेऽवष्टब्धप्रकाशे पथि । कीदृश्या तया । कनकनिकषवत्सुवर्णघर्षणवत्स्निग्धयारूक्षया । एवं च कृत्वा तोयोत्सर्गार्थं स्तनितेन गर्जितडम्बरेण मुखरः सशब्दो मा भूः । यतस्ता योषिद्भावात्कातराम्बग्नवः[अस्पष्टं मुद्रणम्] ॥

Verse 38
तां कस्यां चिद्भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तां पूर्वोक्तां रात्रिं कस्यामपि भवनवलभौ गृहोपरिपुरे नीत्वातिवाह्य ततः मूर्योदये भूयोऽपि भवान्मार्गमवशिष्टं वाहयेदुल्लङ्घयेत् । यस्मान्मित्राणां यैरर्थकृत्यं प्रयोजनमभ्युपेतमूरीकृतं शिरसाङ्गीकृतं ते न खलु मन्दायन्ते नैवालसा भवन्ति । कीदृश्यां वलभौ । सुप्ताः पारावताः कपोतविशेषाः यत्र । ते हि कण्ठरुतश्रवणार्थं नागरकैर्गृहे धार्यन्ते । त्वं कीदृशः । चिरं विलसनात्स्विन्नं श्रान्तं विद्युदेव कलत्रं भार्या यस्य सः । अत एव वलभौ विश्रमणम् । अमन्दो मन्दो भवति मन्दायते । भृशादित्वात्क्यङ् । अर्थश्चासौ कृत्यमर्थकृत्यम् । अर्थः प्रयोजनम् । अवश्यकार्यत्वाच्चास्य कृत्यत्वम् ॥

Verse 39
तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अतः कारणाद्भानोः सूर्यस्य वर्त्म मार्गं त्यज । माच्छादको भूरित्यर्थः । यतस्तस्मिकाले प्रभाताख्ये खण्डितानां विप्रलब्धानामङ्गनानां प्रियैरागत्यास्रु नेत्रजलं शमनीयम् । यदि त्वमस्य पटनिभो भवसि तदालोकनपाटवाभावान्निशाशङ्कया नागमनं स्यादिति वर्त्म भानोस्त्यज । किं च सोऽपि भानुः खण्डितायाः कमलिन्याः प्रियायाः कमालादेव वदनात्प्रालेयमवश्यायमेवास्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । तेनापि पद्मिन्याः प्रार्थना कार्येत्यर्थः । अतस्त्वयि कररुधि रश्मिरोधकेऽनल्पाभ्यसूयो भवेत् । त्वयि महान्तं रोषं भावयेत् । यस्य हि प्रियां प्रार्थयमानस्य यः करमवष्टम्भीयात्तस्य तत्र मन्युर्भवति । निद्राकषायमुकुलीकृतेत्यादि' ॥

Verse 40
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मात्तस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: गम्भीराख्यायाः सरितः पयसि प्रसन्ने तव स्वभावसुन्दरच्छायारूपोऽप्यात्मा प्रतिबिम्बरूपश्चेतसीव प्रवेशं लप्स्यते । तस्मात्कारणादस्या नद्याः कैरवसितानि चपलशफरोद्वर्तनप्रेक्षितानि कम्पमानमीनम्फुरितावलोकितानि धाैर्याद्गाम्भीर्यान्मोघीकर्तुं वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनाद्धि तानि निष्फलानि स्युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्बते । स हि तस्याश्चेतसि प्रविष्टः ॥